Loading data... On slow networks this could take a few minutes.
100%

भक्तिमन्त इह भक्तवत्सले
सन्ततस्मरणरीणकल्मषाः ।
यान्ति निर्वहणमस्य संसृति-
क्लेशनाटकविडम्बनाविधेः ॥

मल्लिनाथः &#३२; भक्तिमन्त इति ॥ भक्तवत्सले भक्तप्रिये इहास्मिन् हरौ भक्तिमन्तोऽनुरागवन्तो जनाः । पूज्येष्वनुरागो भक्तिः संततं सततं तत्स्मरणेन निरन्तरध्यानेन रीणकल्मषाः क्षीणपापाः सन्तः । `री क्षये `ल्वादिभ्यः` (८|२।४४) इति निष्ठानत्वम् । अस्यानुभूयमानस्य कृष्णस्य संसृतिः संसारस्तस्य क्लेशो दुःखं तदेव नाटकमिति रूपकम् । तस्य विडम्बनाभिनयस्तस्य निर्वहणं समाप्तिं यान्ति । मुच्यन्त इत्यर्थः । `तमेवंविद्वानमृत इह भवति` (श्वेता० ६।१५) इति श्रुतेरिति भावः
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
क्ति न्त क्त त्स ले
न्त स्म री ल्म षाः
या न्ति नि र्व स्य सं सृ ति
क्ले ना वि म्ब ना वि धेः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.