सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥
मल्लिनाथः
सावज्ञमिति ॥ सावज्ञमनादरं यथा तथा विलोचने सकृदेकवारम् । `एकस्य सकृत्` (अष्टाध्यायी ५.४.१९ ) इति सकृदर्थे निपातः । क्षणमुन्मील्योन्मिष्य । पुनः&#३२; सुषुप्सुना स्वप्तुमिच्छुना । स्वपेः सन्नन्तादुप्रत्ययः । `रुदविद-` (अष्टाध्यायी १.२.८ ) इत्यादिना सनः कित्त्वात् `वचिस्वपि-` (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । मृगेन्द्रेण सिंहेन समया समीपे । `समयानिकषाशब्दौ समीपे संप्रकीर्तितौ` इति सज्जनः । यातो गच्छतोऽपि । यातेर्लटः शत्रादेशः । सैन्यात् सेनातः। भीत्रार्थानां भयहेतुः` (अष्टाध्यायी १.४.२५ ) इत्यपादानत्वम् । न विव्यथे न बिभ्ये । `व्यथ भयसंचलनयोः` इति धातोर्भावे लिट् । अथवा । तथा हीत्यर्थः । अन्यथा भीतत्वे कथं सुराजंभवं सुखेन राज्ञा भूयते । न कथमपीति भावः । राजा चायं मृगाणामिति भावः । `कर्तृकर्मणोश्च भूकृञोः` (अष्टाध्यायी ३.३.१२७ ) इति कर्तरीषदादौ चोपपदे भवतेः खल्प्रत्यये नलोपमुमागमौ । अर्थान्तरन्यासः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.