Loading data... On slow networks this could take a few minutes.
100%

भेरिभिराक्रुष्टमहागुहामुखो
ध्वजांशुकैस्तर्जितकन्दलीवनः ।
उत्तङ्गमातङ्गजितालघूपलो
बलैः स पश्चात्कियते स्म भूधरः ॥

मल्लिनाथः भेरीभिरिति ॥ भेरीभिराक्रुष्टानि निन्दितानि महान्ति गुहामुखानि येन सः । भेरीझङ्कारभर्त्सितनितान्तवात्यामुखरमहागुहाद्वार इत्यर्थः । ध्वजांशुकैस्तर्जितानि भर्त्सितानि कन्दलीदलानि गुल्मपत्राणि येन सः । उत्तुङ्गैर्मातङ्गैर्जिता अलघूपलाः स्थूलपाषाणा येन स भूधरो रैवतकादिः बलैः सैन्यैः पश्चात्क्रियते स्म पश्चात्कृतः । स्वयं दूरगमनेन पृष्ठतः कृत इत्यर्थः । उक्तविशेषणमहिम्ना अधरीकृत इति च प्रतीयते । `लट् स्मे` (अष्टाध्यायी ३.२.११८ ) इति भूतार्थे लट् । आक्रुष्टेति क्रोशतेः कर्मणि क्तः । व्रश्चादित्वात्पत्वे ष्टुत्वम् । अत्र पश्चात्करणस्याक्रुष्टादिपदार्थहेतुकत्वात्काव्यलिङ्गम् । तच्चोक्तप्रतीयमानाभेदाध्यवसायादिति श्लेषमूलातिशयोक्तिसंकीर्णम् । तेन बलानां भूधरौपम्यं गम्यत इत्यर्थालंकारेणालंकारध्वनिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२
भे रि भि रा क्रु ष्ट हा गु हा मु खो
ध्व जां शु कै स्त र्जि न्द ली नः
त्त ङ्ग मा ङ्ग जि ता घू लो
लैः श्चा त्कि ते स्म भू रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.