Loading data... On slow networks this could take a few minutes.
100%

दधदसकलमेकं खण्डितामानमद्भिः
श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।
कलरवमुपगीते षट्पदौघेन धत्तः
कुमुदकमल षण्डे तुल्यरूपामवस्थाम् ॥

मल्लिनाथः दधदिति ॥ एकं कुमुदषण्डमानमद्भिर्मुकुलीभवद्भिः पलाशैर्दलैरसकलमधू खण्डिताम् । क्षीयमाणामित्यर्थः । श्रियं दधत् । अपरं कमलषण्डमुच्छ्वसद्भिर्विकसद्भिः पलाशैरपूर्णां वर्धमानां श्रियं दधत् । षट्पदौघेन कलरवं यथा तथा उपगीते । उभे अपीत्यर्थः । कुमुदकमलषण्डे कुमुदानां कमलानां च षण्डे कदम्बे । `कदम्बे षण्डमस्त्रियाम्` इत्यमरः । तुल्यरूपामवस्थां धत्तः दधाते । अत्र क्षयवृद्ध्योरर्थप्रवृत्तेरैकरूप्ये कस्य क्षयः कस्य वा वृद्धिरिति दुर्ग्रहमिति भावः । अत्रोभयविशेषणानां तुल्यावस्थाधारणहेतुकत्वात्काव्यलिङ्गम् । तेन द्वयोः क्रमेणोपमानोपमेयभावरूपोपमेयोपमा व्यज्यते
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
मे कं ण्डि ता मा द्भिः
श्रि पू र्णा मु च्छ्व द्भिः ला शैः
मु गी ते ट्प दौ घे त्तः
कु मु ण्डे तु ल्य रू पा स्थाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.