श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः
सततममृषभहीनं भिन्नकीकृत्य षड्जम् ।
प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः
परिणतिमिति रात्रेर्मागधा माधवाय ॥

मल्लिनाथः श्रुतीति ॥ नास्ति कार्यस्येत्यकाकुः अविकृतध्वनिः । `काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः` इत्यमरः । श्रावयतीति श्रावको दूरध्वनिः । स्निग्धो मधुरः कण्ठः स्वरो येषां ते अकाकुश्रावकस्निग्धकण्ठाः । रक्तकण्ठा इत्यर्थः । मागधा वैतालिकाः । श्रुतयो नाम षड्जादिस्वरारम्भकावयवाः शब्दविशेषाः। तदुक्तम्-`प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रिकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥` इति । ताभिः श्रुतिभिः समधिकं बहुलं षड्जविशेषणं, पञ्चमविशेषणं वा, उभयोरपि तथात्वात् । तदुक्तम्`चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रीस्त्रीनृषभधैवतौ ॥` इति षड्जो मयूरस्य कूजितानुकारी स्वरविशेषः । `षड्जं मयूरो वदति` इति लक्षणात् । तं षड्जं भिन्न एव भिन्नकस्तं कृत्वा भिन्नकीकृत्य । तत्कालनिषिद्धस्वरासंकीर्णं कृत्वेत्यर्थः । पञ्चमो नाम कोकिलकूजितानुकारी स्वरविशेषः । `पिकः कूजति पञ्चमम्` इति लक्षणात् । तं पञ्चमं पीडयन्तः । तत्कालनिषेधात्परित्यजन्त इत्यर्थः । सततं वीणादिवाद्ययुक्तम् । `ततं वीणादिकं वाद्यम्` इत्यमरः । ऋषभोऽपि वृषभनर्दितानुकारी स्वरभेद एव । `गावस्त्वृषभभाषिणः` इति लक्षणात् । तेन हीनम् । तस्यापि तत्कालनिषिद्धत्वादित्यर्थः । सततं ऋषभहीनं च यथा तथा रात्रेः परिणतिम् । परिवृत्तिमित्यर्थः । इति वक्ष्यमाणप्रकारेणोच्चैर्यथा तथा माधवाय कृष्णाय । क्रियाग्रहणात्संप्रदानत्वम् । प्रणिजगदुः । गानेनाचख्युरित्यर्थः । नेर्गदनद-` (अष्टाध्यायी ८.४.१७ ) इत्यादिना णत्वम् । पञ्चमादिनिषेधे भरतः । `प्रभाते सुतरां निन्द्य ऋषभः पञ्चमोऽपि च । जनयेत्प्रधनं ह्युक्षा पञ्चत्वं पञ्चमोऽपि च ॥ पञ्चमस्य विशेषोऽयं कथितः पूर्वसूरिभिः । प्रगे प्रगीतो जनयेद्दशनस्य विपर्ययम् ॥` इति । वृत्त्यनुप्रासोऽलंकारः । अस्मिन्सर्गे मालिनी वृत्तम् । `ननमयययुतेयं मालिनी भोगिलोकैः` इति लक्षणात्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
श्रु ति धि मु च्चैः ञ्च मं पी न्तः
मृ ही नं भि न्न की कृ त्य ड्जम्
प्र णि दु का कु श्रा स्नि ग्ध ण्ठाः
रि ति मि ति रा त्रे र्मा धा मा वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.