Loading data... On slow networks this could take a few minutes.
100%

भातु नाम सुदृशां दश-
नाङ्कः पाटलो धवलगणडतलेषु ।
दन्तवाससि समानगु-
णश्रीः संमुखोऽपि परभागमवाप ॥

मल्लिनाथः भात्विति ॥ सुदृशां संबन्धी पाटलोऽरुणो दशनाङ्को दन्तक्षतं धवलगण्डतलेषु कपोलेषु भातु नाम वैवर्ण्याद्भेदेन प्रकाशताम् । नामेत्यङ्गीकारे । दन्तवाससि अधरे तु समानगुणश्रीस्तुल्यवर्णोऽपि तथा संमुखोऽपि सन् परभागं गुणोत्कर्षं तथा पश्चाद्भागं चावाप इति सावर्ण्यवैवर्ण्ययोः संमुखपराङ्मुखत्वयोश्च विरोधः । उपरिभागमवापेत्युभयत्र परिहाराद्विरोधाभासद्वयसंसृष्टिः । तत्राद्यः श्लेषभित्तिकाभेदाध्यवसायमूलस्तद्गुणोत्थापित इति संकरः
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
भा तु ना सु दृ शां
ना ङ्कः पा लो ले षु
न्त वा सि मा गु
श्रीः सं मु खो ऽपि भा वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.