गतं तिरश्चीनमनूरुसारधेः
प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः
किमेदतित्याकुलमीक्षितं जनैः ॥

मल्लिनाथः गतमिति ॥ अविद्यमानावूरू यस्य सोऽनूरुः स सारथिर्यस्य तस्यानूसारथेः सूर्यस्य गतं गतिः । भावे क्तः । तिरश्चीनं तिर्यग्भूतम् । `विभाषाञ्चेरदिक्स्त्रियाम्` इति तिर्यक्शब्दादञ्चत्यन्तात्प्रातिपदिकात् स्वार्थे खप्रत्ययः । हविर्भुजोऽग्नेरूर्ध्वज्वलनमूर्ध्वस्फुरणं प्रसिद्धम् । इदं तु सर्वतो विसरि धामाधः पतति । किमेतदिति सूर्याग्निविलक्षणमदृष्टपूर्वमिदं धाम किमात्मकं स्यादित्याकुलं विस्मयात्संभ्रान्तं यथा तथा जनैरीक्षितमीक्षणं कृतम् । सकर्मकादप्यविवक्षिते कर्मणि क्तः । `प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया` इति वचनात् । केचित्क-.. र्मणि त्कान्तं कृत्वा ईक्षितं मुनिं ददर्शेति पूर्वेण योजयन्ति । अत्रोपमेयस्य मुनिधाम्नः सूर्याग्निभ्यामुपमानाभ्यामधःप्रसरणधर्मेणाधिक्यवर्णनाद्व्यतिरेकः । तदुक्तं काव्यप्रकाशे-`उपमानाद्यदन्यस्य व्यतिरेकः स एव सः` इति । `धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः` इति हेमचन्द्रः । दिवाकरस्तु वृत्तरत्नाकरटीकायां । प्रथमपठितेन `द्विधाकृतात्मा किमयं दिवाकरो, विधूमरोचिः किमयं हुताशनः` इति चरणद्वयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाह । तत्राद्य चरणद्वयेन संदेहालंकारो गतमिति तन्निरासश्च बोध्य इत्युपरिष्टात्
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तं ति श्ची नू रु सा धेः
प्र सि द्ध मू र्ध्व ज्व नं वि र्भु जः
त्य धो धा वि सा रि र्व तः
कि मे ति त्या कु मी क्षि तं नैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.