गतं तिरश्चीनमनूरुसारधेः
प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः
किमेदतित्याकुलमीक्षितं जनैः ॥
गतं तिरश्चीनमनूरुसारधेः
प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः
किमेदतित्याकुलमीक्षितं जनैः ॥
प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः
किमेदतित्याकुलमीक्षितं जनैः ॥
मल्लिनाथः
गतमिति ॥ अविद्यमानावूरू यस्य सोऽनूरुः स सारथिर्यस्य तस्यानूसारथेः सूर्यस्य गतं गतिः । भावे क्तः । तिरश्चीनं तिर्यग्भूतम् । `विभाषाञ्चेरदिक्स्त्रियाम्` इति तिर्यक्शब्दादञ्चत्यन्तात्प्रातिपदिकात् स्वार्थे खप्रत्ययः । हविर्भुजोऽग्नेरूर्ध्वज्वलनमूर्ध्वस्फुरणं प्रसिद्धम् । इदं तु सर्वतो विसरि धामाधः पतति । किमेतदिति सूर्याग्निविलक्षणमदृष्टपूर्वमिदं धाम किमात्मकं स्यादित्याकुलं विस्मयात्संभ्रान्तं यथा तथा जनैरीक्षितमीक्षणं कृतम् । सकर्मकादप्यविवक्षिते कर्मणि क्तः । `प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया` इति वचनात् । केचित्क-.. र्मणि त्कान्तं कृत्वा ईक्षितं मुनिं ददर्शेति पूर्वेण योजयन्ति । अत्रोपमेयस्य मुनिधाम्नः सूर्याग्निभ्यामुपमानाभ्यामधःप्रसरणधर्मेणाधिक्यवर्णनाद्व्यतिरेकः । तदुक्तं काव्यप्रकाशे-`उपमानाद्यदन्यस्य व्यतिरेकः स एव सः` इति । `धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः` इति हेमचन्द्रः । दिवाकरस्तु वृत्तरत्नाकरटीकायां । प्रथमपठितेन `द्विधाकृतात्मा किमयं दिवाकरो, विधूमरोचिः किमयं हुताशनः` इति चरणद्वयेन सहेममेव श्लोकं षट्पदच्छन्दस उदाहरणमाह । तत्राद्य चरणद्वयेन संदेहालंकारो गतमिति तन्निरासश्च बोध्य इत्युपरिष्टात्
छन्दः
वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|
| ग | तं | ति | र | श्ची | न | म | नू | रु | सा | र | धेः |
| प्र | सि | द्ध | मू | र्ध्व | ज्व | ल | नं | ह | वि | र्भु | जः |
| प | त | त्य | धो | धा | म | वि | सा | रि | स | र्व | तः |
| कि | मे | द | ति | त्या | कु | ल | मी | क्षि | तं | ज | नैः |
| ज | त | ज | र | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.