पश्यन्तश्च तां परिसर एव चरन्तीं प्राणशक्तिमिव पञ्चशरस्य, भाग्यदेवतामिव शृङ्गाररसस्य, बालिकामुपेक्षितुं सुधाकलशमुदासितुं च तस्यामपारयन्तः क्षणमनुबभूवुः संशयान्दोलनं यावदसुरवरा:-- तावद्धावत्कन्दुकग्राहमोह- व्याजात्प्राप्ता मध्यमेषां द्वयेषाम् । सिञ्चन्तीव व्याजहारामृतौघैः शस्त्राशस्त्रिक्लेशितान्यङ्गकानि

About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.