स्तुवन्तो दिव्याभिः स्तुतिभिरभिसंगम्य शतशः
स्पृशन्तः कोटीरैश्चरणकमलं कैटभभिदः ।
स्मरन्तः श्रीकण्ठं सममसुरवीरैर्दिविचराः
प्रहृष्यन्तः सिन्धुं प्रमथितुमुपाक्रंसत पुनः ॥

छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
स्तु न्तो दि व्या भिः स्तु ति भि भि सं म्य शः
स्पृ न्तः को टी रै श्च लं कै भि दः
स्म न्तः श्री ण्ठं सु वी रै र्दि वि राः
प्र हृ ष्य न्तः सि न्धुं प्र थि तु मु पा क्रं पु नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.