इति स्तुवतो देवान् पुरशासनः पुनरित्थमनुशशास ।
'पुत्रा यूयं भुवनविदिता ब्रह्मनारायणेशा दासा देवाः शतमखमुखा दानवेशास्ततोऽपि ।
कस्यान्यस्य व्यसनमहरं कालकूटे निगृह्णन् लज्जे भूयः स्तुतिषु भवतां व्यापृतः स्वे कुटुम्बे ॥

About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.