अपि च विदूरादम्बरतलादापततोऽस्य महता वेगेन प्रकीर्यमाणे पर्यन्तगते निरवशेषं परिपीयमाने च दरीमुखैरेव परिसरगते पयसि, शून्यमिवार्णवं मन्यमाना नभश्चरा निर्ममज्जुरुभयेऽपि भये
उन्मथितेषु च तन्मूलघट्टनादर्णवचरेषु जन्तुषु, ततः परिभ्रष्टाः करिण एव जलकरिणः, किराता एव जलमानुषाः, निर्झरचराः शफरा एव तिमयश्च तिमिङ्गिलाश्च संपेदिरे
अपि च पुनरवगाहमाने रसातलं गिरावभ्यर्णगतं दुग्धमादायादाय सुखमभिषिञ्चन्तः पारमेश्वरं लिङ्गमभ्यनन्दन्नन्दिमुखा गणाः
ऊर्ध्वमाद्युलोकादुत्पतता च दुग्धपूरेण परिप्लाविता सिद्धनदी बभूव दुग्धनदी
संसिक्ताश्च पयसा मधुरेण सर्वतो नन्दनोद्यानवनपादपास्तदादि सुधामधुराणि सुवते फलानि
मजन्मन्दरशैलकन्दरपुटव्याघूर्णदोभर- स्वैरोज्जागरघोषभीषणपः कल्लोलिनीवल्लभाः
खेदस्तम्भितकिंपचानविबुधप्रारब्धभूरिस्तवा गोविन्दस्य कुतूहलं विदधिरे ते केचिदेकक्षणाः

About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.