इति कटाक्षपातेन कमलायाः परिग्रहेण च भगवतः प्रतिबुध्य तत्त्वमुदासीने पद्मसंभवे, प्रपञ्चपाञ्चालिकानटनसूत्रधारः परमपुरुषः सर्वपथीनया महामायया तमाच्छादयन् , कर्तव्यमस्योपदिदेश---'सत्यमेव भवानाह कदर्थनान्येव कदर्थनानीति ।
अलमेव ह्यग्रतः स्थितिरस्माकम् , अवहितो गृहाणेदं, आदिश च सर्वानमरान्- संधानं कुरुतासुरैः प्रथमतो मन्थानमुर्वीधरं कृत्वा मन्दरमर्णवे क्षिपत ते यूयं समेतास्ततः ।
बध्द्वा वासुकिनाथ मन्थत ततः संत्पस्यते या सुधा तामास्वाद्य गमिष्यथाप्यमरतां यूयं न वः शत्रवः ॥

About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.