इमं च पश्य वैनीतकं भगवतो वैनतेयं, यस्य किल पुरा कल्पे सुधाकुम्भहरणसंरम्भसंभ्रमोद्भूतपक्षमारुतविक्षेपसमुन्मूलिततया परितो विकीर्यमाणेषु नन्दनोद्यानपादपेषु, प्रयत्नेन महता पारिजातमेकमाहृतवतो भगवतोऽपि मन्दाक्षमिवालक्ष्यत इति संशृणुमहे ।
अपि च छन्दो यथा यथा शौरेः संग्रामेषु जिगीषतः ।
तथा तथा प्रवृत्तोऽयं छन्दोमय इतीयते ॥

विस्तारः छन्दः अभिलाषः। छन्दोमयः वेदमयः । 'सुपर्णोऽसि गरुत्मान् निवृत्ते शिरो गायत्रं चक्षुः खोम आत्मा साम ते तनूर्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दॉस्यङ्गानि धिष्णिया. शफा यजूंषि(??) नाम' इति श्रुतेः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.