संजय उवाच ।
८.४५.१
द्रौणिस्तु रथवंशेन महता परिवारितः ।
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ॥
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ॥
M N Dutt
Sanjaya said Thereupon surrounded be a mighty carforce Drona's son appeared, all on a sudden O king, where Pritha's son was.
८.४५.२
तमापतन्तं सहसा शूरः शौरिसहायवान् ।
दधार सहसा पार्थो वेलेव मकरालयम् ॥
दधार सहसा पार्थो वेलेव मकरालयम् ॥
M N Dutt
Like a bank containing ocean Pritha's heroic son, assisted by Shouri, all on a sudden, encountered him.
८.४५.३
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् ।
अर्जुनं वासुदेवं च छादयामास पत्रिभिः ॥
अर्जुनं वासुदेवं च छादयामास पत्रिभिः ॥
M N Dutt
Thereupon, O king, your son, the great carwarrior, being greatly enraged resisted those the rays twin sons of Pandu, the great bowmen, with numberless arrows.
८.४५.४
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः ।
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥
M N Dutt
Beholding those two Krishnas covered with arrows the mighty car-warriors of the Pandava and Kuru armies, filled with great wonder, looked at them.
८.४५.५
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव ।
तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥
तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥
M N Dutt
Thereupon as if smiling Arjuna created a celestial weapon while, ( descendant of Bharata, the Brahmana baffled in battle.
८.४५.६
यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया ।
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥
M N Dutt
Whatever weapon that the Pandava discharged in battle for killing the son of Drona, the great bowman made useless.
८.४५.७
अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे ।
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥
M N Dutt
Then, O king, a great encounter of weapons took place in that great battle when we saw the son of Drona like Death himself with widening mouth.
८.४५.८
स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः ।
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥
M N Dutt
Having filled all the quarters and directions with straight arrow he sundered Krishna's right arm with three arrows.
८.४५.९
ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः ।
चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥
चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥
M N Dutt
Thereupon killing all the horses of the highsouled one Arjuna created, in the battle-field, a dreadful stream of blood, carrying away all to the other region.
८.४५.१२
ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा ।
वक्षोदेशे समासाद्य ताडयामास संयुगे ॥
वक्षोदेशे समासाद्य ताडयामास संयुगे ॥
M N Dutt
O monarch, Drouni again ruthlessly wounded Arjuna on the breast with a winged arrow.
८.४५.१७
स संगृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः ।
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥
M N Dutt
Then himself taking up the reins of horses Drona's son covered Krishna and Arjuna with arrows. He saw a wonderful power in him then. He simultaneously drove his horses and fought with Phalguna. It was spoken highly of by all the warriors in battle, O king.
८.४५.१९
यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः ।
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥
M N Dutt
Then smiling a little, Vibhatsu also named Jaya speedily cut-off the rein of Drouni's horses in battle with a razor-like shaft.
८.४५.२०
प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः ।
ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥
ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥
M N Dutt
Assailed with weapons the horses ran away on all sides. There then took place a great havoc of your soldiers.
८.४५.२१
पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् ।
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥
M N Dutt
Having thus accomplished victory the Pandavas, desirous of achieving (further) success, pursued your soldiers, on all sides, making a discharge of arrows.
८.४५.२२
पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः ।
पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥
पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥
M N Dutt
Your great army was again and again routed by the Pandava warriors desirous of victory.
८.४५.२३
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् ।
शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥
शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥
M N Dutt
Thereupon in the very presence of your sons, O king, conversant with diverse modes of war-fare, of Subala's son Shakuni and Karna.
८.४५.२४
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर ।
नावतिष्ठत संग्रामे ताड्यमाना समन्ततः ॥
नावतिष्ठत संग्रामे ताड्यमाना समन्ततः ॥
M N Dutt
Although prevented, O king, by your sons that great army assailed on all sides did not stop in the battle-field.
८.४५.२५
ततो योधैर्महाराज पलायद्भिस्ततस्ततः ।
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥
M N Dutt
The warriors taking to their heels on all sides in numbers a great confusion took place in the vast terror-stricken army of your son.
८.४५.२६
तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः ।
नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥
नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥
M N Dutt
Karna then exclaimed-"Wait wait". But your army, slain by many great warriors, did not wait in the battle-field.
८.४५.२७
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ॥
धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ॥
M N Dutt
Seeing Prishata's son released and Drona's son wounded, the Panchalas, O king, jubilant over the victory, sent up loud war-cries.
८.४५.३०
सहस्राणि च योधानां त्वामेव पुरुषर्षभ ।
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥
M N Dutt
Routed by the Pandavas, thousands of our soldiers are calling after you only.
८.४५.३१
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् ।
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥
M N Dutt
Hearing those weighty words of Duryodhana, Karna, as if smiling, said to the Madra king.
८.४५.३२
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर ।
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ।
वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ।
वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥
M N Dutt
Behold, O king, the strength of my arms and weapons. I will kill today in battle all the Panchalas and Pandavas. Drive my car, O best of men and every thing will be as I have said.”
८.४५.३३
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ।
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥
M N Dutt
Having said this, O monarch, the charioteer's son, highly powerful as he was, took up his old victorious bow Vijaya the best of its kind and rubbing again and again its string set it on the bow. Thereupon having assured his army and commanded them to wait in the battle-field, the powerful and highly energetic Karna set Bhargava weapons to his bow-string.
८.४५.३५
ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च ।
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥
M N Dutt
There came out in a stream, O king, millions of sharp arrows in that mighty encounter.
८.४५.३६
ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः ।
संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन ॥
संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन ॥
M N Dutt
Covered fully with those shining and dreadful Kanka and peacock-feathered arrows the Pandava soldiers could see nothing in the battle-field.
८.४५.३७
हाहाकारो महानासीत्पाञ्चालानां विशां पते ।
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥
M N Dutt
Assailed by the powerful Bhargava weapon in that battle, O king, Panchalas set up loud lamentations.
८.४५.३९
प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः ।
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥
M N Dutt
And O king, thousands of elephants, horses, cars and men falling on all sides, the earth began to shake. The great army of the Pandavas quivered from one end to the other.
८.४५.४०
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः ।
दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः ॥
दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः ॥
M N Dutt
In the meantime while killing his enemies, that foremost of men the great warrior Karna, even destroying his foes, shone like smokeless fire.
८.४५.४१
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह ।
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ।
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ।
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥
M N Dutt
Massacred then by Karna, the Panchalas and Chedis lost their consciousness in the battle-field like elephants when a forest fire rages on.
८.४५.४२
तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि ।
धावतां च दिशो राजन्वित्रस्तानां समन्ततः ।
आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे ॥
धावतां च दिशो राजन्वित्रस्तानां समन्ततः ।
आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे ॥
M N Dutt
The leading warriors sent up war-cries roaring like tigers. Like animals at the hour of universal dissolution the soldiers, terrorstricken and running wildly about in the battlefield,set-up loud cries of lamentation.
८.४५.४३
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष ।
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥
M N Dutt
Seeing them thus slaughtered by the charioteer's son, all creatures, beasts and birds, were terrorised.
८.४५.४४
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥
M N Dutt
As the spirits call upon the Regent of Death to save them, so the Srinjayas, massacred by Karna, repeatedly prayed to Arjuna and Vasudeva's son to save them.
८.४५.४५
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनंजयः ।
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥
M N Dutt
Beholding there the discharge of the dreadful Bhargava weapon and hearing the cries of his men slaughtered by Karna, with arrows Kunti's son Dhananjaya said to Krishna. can
८.४५.४६
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् ।
नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन ॥
नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन ॥
M N Dutt
Beholding there the discharge of the dreadful Bhargava weapon. No one withstand it in battle.
८.४५.४७
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे ।
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ॥
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ॥
M N Dutt
Behold again in this great encounter O Krishna, the great son of a charioteer, resembling Death himself in power and performing a dreadful feat.
८.४५.४८
सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः ।
न च पश्यामि समरे कर्णस्य प्रपलायितम् ॥
न च पश्यामि समरे कर्णस्य प्रपलायितम् ॥
M N Dutt
Repeatedly urging on his horses he is looking at me. I will not be able to tear me away from Karna in battle.
८.४५.४९
जीवन्प्राप्नोति पुरुषः संख्ये जयपराजयौ ।
जितस्य तु हृषीकेश वध एव कुतो जयः ॥
जितस्य तु हृषीकेश वध एव कुतो जयः ॥
M N Dutt
If a man survives he either meets with success or defeat in battle. To one dead, O Hrishikesh, death itself is a victory.
॥ इति ८.४५ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.