संजय उवाच ।
६.४१.१
ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् ।
पुनरेव महानादं व्यसृजन्त महारथाः ॥
पुनरेव महानादं व्यसृजन्त महारथाः ॥
M N Dutt
Sanjaya said Seeing Dhananjaya (Arjuna) take up once again his Gandiva and arrows, the great carwarriors (of the Pandava army) sent up a tremendous shout.
६.४१.२
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ॥
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ॥
M N Dutt
Those heroes, the Pandavas, and the Somakas, and those that followed them, blew their sea-born conchs in great delight.
६.४१.३
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥
M N Dutt
Drums and Peshis and Krakachas and cowhorns were beat and blown together and the uproar made was very loud.
६.४१.४
अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर ।
सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया ॥
सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया ॥
M N Dutt
O ruler of men, then there came the celestial, the Gandharvas, the Pitris, the Siddhas and the Charanas with the desire of witnessing (the battle).
६.४१.५
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् ।
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ॥
समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ॥
M N Dutt
The highly blessed Rishis came there in a body with Shatakratu (Indra) at their head, so that they might see the great slaughter.
६.४१.९
तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः ।
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥
M N Dutt
Seeing him proceed, the son of Kunti, Dhananjaya, soon alighted from his car and followed him accompanied by all his brothers.
६.४१.१०
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह ।
यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ॥
यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ॥
M N Dutt
The lord Vasudeva also followed him. The chief kings also (of Yudhisthira's army) followed him in great anxiety.
अर्जुन उवाच ।
६.४१.११
किं ते व्यवसितं राजन्यदस्मानपहाय वै ।
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥
पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥
M N Dutt
Arjuna said O king, what is this you are doing that abandoning us you proceed on foot, face eastwards to the enemy's army.
भीमसेन उवाच ।
६.४१.१२
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः ।
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥
M N Dutt
Bhima said O great king, where are you going, O ruler of earth, putting aside your Armour and weapons, you go towards the enemy's warriors clad in Armour, thus abandoning your brothers,
नकुल उवाच ।
६.४१.१३
एवंगते त्वयि ज्येष्ठे मम भ्रातरि भारत ।
भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥
भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥
M N Dutt
Nakula said O descendant of Bharata, you are my eldest brother. Fear troubles my heart on account of your this proceeding (towards the enemy); Tell us where you are going.
सहदेव उवाच ।
६.४१.१४
अस्मिन्रणसमूहे वै वर्तमाने महाभये ।
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ॥
योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ॥
M N Dutt
Sahadeva said o kin, when these hostile troops, both numerous and terrible, stand here to fight with us, where do you go to their directions?
संजय उवाच ।
६.४१.१५
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन ।
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ॥
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ॥
M N Dutt
Sanjaya said O descendant of Kuru, though he was thus addressed by his brothers, yet he continued to proceed without uttering a word.
६.४१.१६
तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥
M N Dutt
To them then the high-souled and the greatly wise Vasudeva thus smilingly spoke "His intention is known to me".
६.४१.१७
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च ।
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥
M N Dutt
Having (first) paid his respects to all the Gurus, such as Bhishma, Drona, Kripa and Shalya, he will fight with the enemy.
६.४१.२१
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।
मिथः संकथयां चक्रुर्नेशोऽस्ति कुलपांसनः ॥
मिथः संकथयां चक्रुर्नेशोऽस्ति कुलपांसनः ॥
६.४१.२५
ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् ।
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ॥
हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ॥
युधिष्ठिर उवाच ।
६.४१.३२
आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह ।
अनुजानीहि मां तात आशिषश्च प्रयोजय ॥
अनुजानीहि मां तात आशिषश्च प्रयोजय ॥
M N Dutt
Yudhishthira said O invincible one, I bow to you. We shall fight with you. Grant us your permission; give us your blessings.
भीष्म उवाच ।
६.४१.३३
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते ।
शपेयं त्वां महाराज पराभावाय भारत ॥
शपेयं त्वां महाराज पराभावाय भारत ॥
M N Dutt
Bhishma said Oruler of earth, O great king, O descendant of Bharata, if you had not come to me in this battle, I would have cursed you for bringing about your defeat.
६.४१.३४
प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव ।
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥
M N Dutt
O son, I am pleased with you. O son of Pandu, fight and obtain victory. Whatever else you have desired to obtain, get them all in this battle.
६.४१.३५
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि ।
एवं गते महाराज न तवास्ति पराजयः ॥
एवं गते महाराज न तवास्ति पराजयः ॥
M N Dutt
O son of Pritha, ask for a boon which you desire to get. O great king, if it so happens, then defeat will not be yours.
६.४१.३६
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥
M N Dutt
A man is the slave of wealth, but wealth is the slave of none. O king, this is the truth. I am bound to the Kurus by wealth.
६.४१.३७
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥
हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥
M N Dutt
O descendant of Kuru, it is for this I am, like a eunuch, uttering these words that I am bound to the Kurus by wealth. Except battle, What do you desire?
युधिष्ठिर उवाच ।
६.४१.३८
मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः ।
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥
M N Dutt
Yudhishthira said O greatly wise one, desiring my welfare from day to day look after my interest. Fight for the sake of the Kurus, this is my prayer.
भीष्म उवाच ।
६.४१.३९
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन ।
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥
M N Dutt
Bhishma said O king, O descendant of Kuru, what can I do for you. I shall of course fight on behalf of your enemies. Tell me what can I do for you?
युधिष्ठिर उवाच ।
॥ इति ६.४१ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.