युधिष्ठिर उवाच ।
३.३०.१७
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते ।
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ॥
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ॥
३.३०.१८
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति ।
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥
३.३०.२०
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥
३.३०.२३
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥
॥ इति ३.३० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.