मार्कण्डेय उवाच ।
३.१८३.१
भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे ।
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ।
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ॥
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ।
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ॥
M N Dutt
Markandeya said : Hear from me again of the great glory of the Brahmanas. We have heard that a royal sage Vainya by name was engaged in celebrating the horse-sacrifice and that Atri was prepared to go to him for alms. But at last actuated by religious motives he abandoned his desire for riches.
३.१८३.२
भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ।
संचिन्त्य स महातेजा वनमेवान्वरोचयत् ।
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥
संचिन्त्य स महातेजा वनमेवान्वरोचयत् ।
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥
M N Dutt
After much deliberation (as to what he should do) that highly energetic (sage) became desirous of living in the forests and calling his wedded wife and sons together spoke to them thus
३.१८३.३
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् ।
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥
M N Dutt
May it be your inclination to go to the forests soon; because (by repairing there) we shall attain the highly blissful and tranquil fulfillment (of our desires).
३.१८३.४
तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती ।
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ।
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ॥
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ।
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ॥
M N Dutt
To this his wife, actuated by virtuous motives, also replied “go to the high-souled Vainya and beg of him immense wealth.
३.१८३.५
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु ।
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ।
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ।
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥
M N Dutt
And having distributed it among the sons and the attendants, you may go whither you like. This is the highest virtue as instanced by men versed in religion.
अत्रिरुवाच ।
३.१८३.६
कथितो मे महाभागे गौतमेन महात्मना ।
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥
M N Dutt
Atri said: O highly fortunate (wife), I have been told by the noble-minded Gautama that Vainya is religious, conversant with (the principles of the science of) profit and devoted to truth.
३.१८३.७
किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः ।
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥
M N Dutt
But he is surrounded by Brahmanas who are very envious of me. As Gautama has informed me of this I dare not go there.
३.१८३.८
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् ।
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ॥
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ॥
M N Dutt
For even if I speak these (highly) beneficial and religious words calculated to bring about the fulfillment of one's desires they will oppose me with speeches productive of no good.
३.१८३.९
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव ।
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् ॥
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् ॥
M N Dutt
But, O highly wise (wife), I relish your proposal and will (therefore) go there. Vainya will bestow on me cows and immense wealth.
मार्कण्डेय उवाच ।
३.१८३.१०
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः ।
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥
M N Dutt
Markandeya continued Saying this, that sage of great devotion, soon repaired to Vainya's sacrifice. And reaching the sacrificial altar he eulogised the king. With noble speeches and then said these words.
३.१८३.१२
तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः ।
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ।
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ॥
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ।
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ॥
M N Dutt
Gautama said: O Atri, do you not repeat such (foolish words) again. Your understanding is not yet matured. In this world, Mahendra, the lord of all creatures, is the greatest monarch.
३.१८३.१३
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत ।
अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ।
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥
अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ।
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥
M N Dutt
O king of kings, thereupon, Atri replied to Gautama “this king is as much the dispenser of our destiny as Indra, the lord of all creatures. Your intellect is clouded with ignorance and you have no sense at (all)."
गौतम उवाच ।
३.१८३.१५
न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् ।
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥
M N Dutt
You are not conversant with what is the highest duty nor do feel any need for it. You are ignorant as a child; why then have you grown so old in years?
मार्कण्डेय उवाच ।
३.१८३.१६
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ ।
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥
M N Dutt
Markandeya continued When they were thus quarreling before the Munis who were engaged in the sacrifice, the latter enquired "What is the matter with these two men?
३.१८३.१७
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि ।
उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ॥
उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ॥
M N Dutt
Who did admit them to the court of Vainya? What is it that they are clamouring for?”
३.१८३.१८
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् ।
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥
M N Dutt
Then the highly righteous Kashyapa versed in all duties stepping between the disputants inquired of them the cause of their quarrel.
३.१८३.१९
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् ।
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः ।
वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ॥
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः ।
वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ॥
M N Dutt
Thereupon, Gautama addressing that assembly of the most exalted sages said. "O the best of Brahmanas, hear the cause of our dispute.
३.१८३.२१
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः ।
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥
M N Dutt
The righteous Sanatkumara in order to solve their doubt. And he (Sanatkumara) of great devotional spirit, hearing their their words, addressed them with these words of true religious import..
सनत्कुमार उवाच ।
३.१८३.२२
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह ।
राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ।
स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ॥
राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ।
स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ॥
M N Dutt
The king is noted for establishing religion and he is the protector of his subjects. He is (like) Indra (a protector of all beings) like Shukra (a propounder of morals) like Brihaspati (an adviser) and (therefore) he is (justly) styled the ruler of our destiny.
३.१८३.२३
प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः ।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥
M N Dutt
Is there (therefore) anybody who considers himself above worshipping the individual to whom such appellations as 'Prajapati' (the lord of all creatures), 'Virata', 'Emperor', 'Kshatriya' (one who preserves from pain), 'lord of earth,' and 'Monarch', are applied in praise?
३.१८३.२४
पुरायोनिर्युधाजिच्च अभिया मुदितो भवः ।
स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ॥
स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ॥
M N Dutt
The monarch is further styled 'the prime cause,' (of social order), 'the conqueror of battles,' (and therefore) the preserver of the (peace), 'the watchman', 'the contented', 'the lord', 'guide to heaven,' 'the easily victorious', 'Vishnu like.'
३.१८३.२५
सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः ।
अधर्मादृषयो भीता बलं क्षत्रे समादधन् ॥
अधर्मादृषयो भीता बलं क्षत्रे समादधन् ॥
M N Dutt
'Of effective wrath,' 'the victorious in wars' and 'the introducer of true religion.' The Rishis afraid of committing sins made over the (temporal) powers to the Kshatriyas.
३.१८३.२६
आदित्यो दिवि देवेषु तमो नुदति तेजसा ।
तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ॥
तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ॥
M N Dutt
Like the sun among the gods in heaven who destroys darkness by his rays the king among men eradicates sin from the earth.
३.१८३.२७
अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् ।
उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ॥
उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ॥
M N Dutt
Therefore by the authority of the Shastras the greatness of the king is established. And I declare for him who has spoken in favour of the king.
मार्कण्डेय उवाच ।
३.१८३.२८
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः ।
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥
M N Dutt
Markandeya said : Then the high minded king, greatly satisfied with the victorious party who first spoke in high terms of him, gladly addressed him with these words.
३.१८३.२९
यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः ।
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ।
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ॥
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ।
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ॥
M N Dutt
'O Brahmanic sage, as you have styled me the greatest and best of men, here and have compared me with the gods,
३.१८३.३०
दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम् ।
दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ।
एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ॥
दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ।
एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ॥
M N Dutt
I bestow on you one hundred millions of coins and ten Bharas (each bhara is equal to 32 maunds) of gold. According to my belief you are conversant with everything.
३.१८३.३१
तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः ।
प्रत्याजगाम तेजस्वी गृहानेव महातपाः ॥
प्रत्याजगाम तेजस्वी गृहानेव महातपाः ॥
M N Dutt
And the energetic Atri, thus honored by the king and having rightfully accepted all the wealth returned home.
३.१८३.३२
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् ।
तपः समभिसंधाय वनमेवान्वपद्यत ॥
तपः समभिसंधाय वनमेवान्वपद्यत ॥
M N Dutt
And having distributed that wealth among his sons, that self-contained sage gladly went to the forests with the view of performing asceticism.
॥ इति ३.१८३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.