ब्राह्मण उवाच ।
१४.२४.१
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्देवमतस्य च ॥
नारदस्य च संवादमृषेर्देवमतस्य च ॥
M N Dutt
Vyasa said Regarding it is cited the ancient legend of Brihaspati and the wise Marutta.
देवमत उवाच ।
१४.२४.२
जन्तोः संजायमानस्य किं नु पूर्वं प्रवर्तते ।
प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥
प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥
M N Dutt
Devamata said What, indeed, comes first into existence, of a creature that takes birth? Is it Prana, or Apana, or Samana, or Vyana, or Udana?
नारद उवाच ।
१४.२४.३
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।
प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥
प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥
M N Dutt
Narada said By whatever the creature is created, that first comes to him which is other. The vital airs are to be known as existing in pairs, viz., those which move transversely, upwards, and downwards.
देवमत उवाच ।
१४.२४.४
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।
प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥
प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥
M N Dutt
Narada said By whatever the creature is created, that first comes to him which is other. The vital airs are to be known as existing in pairs, viz., those which move transversely, upwards, and downwards.
नारद उवाच ।
१४.२४.५
संकल्पाज्जायते हर्षः शब्दादपि च जायते ।
रसात्संजायते चापि रूपादपि च जायते ॥
रसात्संजायते चापि रूपादपि च जायते ॥
M N Dutt
Narada said-From wish originates Pleasure. It also arise from sound. It arises also from taste; it arises too from colour.
१४.२४.६
स्पर्शात्संजायते चापि गन्धादपि च जायते ।
एतद्रूपमुदानस्य हर्षो मिथुनसंभवः ॥
एतद्रूपमुदानस्य हर्षो मिथुनसंभवः ॥
M N Dutt
Pleasure originates from the semen as well. It arises from taste also. This is the form (effect) of Udana. Pleasure is produced from union.
१४.२४.८
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते ।
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥
M N Dutt
From the semen, united with blood, first originates Prana. Upon the semen being modified by Prana, flows Apana.
१४.२४.९
प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः ।
व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ॥
व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ॥
M N Dutt
Semen is formed by desire. From desire is produced the menstrual flow. In the union of semen and blood, generated by Samana and Vyana, the pair that consists of Prana and Apana, enters, moving transversely and upwards. Vyana and Samana both form a pair which move transversely.
१४.२४.१०
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् ।
संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥
संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥
M N Dutt
Agni (fire) is all the celestials. This is the teaching of the Veda, The knowledge of Agni arises in a Brahmana, with intelligence,
१४.२४.११
तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः ।
सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ॥
सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ॥
M N Dutt
The smoke of that firc is of the form of Darkness. The quality that is known by the name of Passion is in it ashes. The quality of goodness originate from that portion of the fire into which the oblation is poured.
१४.२४.१२
आघारौ समानो व्यानश्च इति यज्ञविदो विदुः ।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
M N Dutt
They who are conversant with sacrifices know that Samana and Vyana are from the quality of Goodness, Prana and Apana are portions of the oblation (of clarified butter). Between them is the Fire.
१४.२४.१३
निर्द्वंद्वमिति यत्त्वेत- ।
त्तन्मे निगदतः शृणु ॥
त्तन्मे निगदतः शृणु ॥
M N Dutt
That is the excellent form (or seat) of Udana, as the Brahmanas know. Listen as I say which is distinct from the pairs.
१४.२४.१४
अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
M N Dutt
Day and Night form a pair, Between them is the Fire. That is the cxcellent seat of Udana as the Brahinanas know.
१४.२४.१५
उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
M N Dutt
Day and Night form a pair, Between them is the Fire. That is the cxcellent seat of Udana as the Brahinanas know.
१४.२४.१६
उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
M N Dutt
Day and Night form a pair, Between them is the Fire. That is the cxcellent seat of Udana as the Brahinanas know.
१४.२४.१७
उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
M N Dutt
Day and Night form a pair, Between them is the Fire. That is the cxcellent seat of Udana as the Brahinanas know.
१४.२४.१८
सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
M N Dutt
Day and Night form a pair, Between them is the Fire. That is the cxcellent seat of Udana as the Brahinanas know.
१४.२४.१९
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् ।
तृतीयं तु समानेन पुनरेव व्यवस्यते ॥
तृतीयं तु समानेन पुनरेव व्यवस्यते ॥
M N Dutt
First is Saman. Then Vyana. The latter's function is managed through it (viz., Samana). Then, secondly, Samans, once more comes to work.
१४.२४.२०
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥
M N Dutt
Only Vyana exists for tranquility. Tranquillity is eternal Brahma. This is the excellent scat of Udana as the Brahinanas know.
॥ इति १४.२४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.