वैशंपायन उवाच ।
१२.२६.१
द्वैपायनवचः श्रुत्वा कुपिते च धनंजये ।
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥
M N Dutt
Hearing the words of Dvaipayana Vyasa and seeing Dhananjaya angry, Yudhishthira the son of Kunti saluted Vyasa and said.
१२.२६.२
न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः ।
प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ॥
प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ॥
M N Dutt
Yudhishthira said This earthly sovereignty and the various objects of enjoyments cannot give me any joy. On the other hand, this painful grief is cutting me to the quick.
१२.२६.३
श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् ।
परिदेवयमानानां शान्तिं नोपलभे मुने ॥
परिदेवयमानानां शान्तिं नोपलभे मुने ॥
M N Dutt
Hearing the lamentations of these women who have lost their heroic husbands and children, I cannot enjoy peace, O sage.
१२.२६.४
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः ।
युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ॥
युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ॥
M N Dutt
Vaishampayana said Thus addressed, the virtuous Vyasa, the best of all persons conversant with Yoga, endued with great wisdom and a master of the Vedas, said to Yudhishthira.
१२.२६.५
न कर्मणा लभ्यते चिन्तया वा
नाप्यस्य दाता पुरुषस्य कश्चित् ।
पर्याययोगाद्विहितं विधात्रा
कालेन सर्वं लभते मनुष्यः ॥
नाप्यस्य दाता पुरुषस्य कश्चित् ।
पर्याययोगाद्विहितं विधात्रा
कालेन सर्वं लभते मनुष्यः ॥
M N Dutt
Vyasa said, No one can acquire anything by his own deeds or by sacrifices and adoration. No man can give anything to another. Man gets everything through Time. The Great Ordainer has made the course of Time the instrument of acquisition.
१२.२६.६
न बुद्धिशास्त्राध्ययनेन शक्यं
प्राप्तुं विशेषैर्मनुजैरकाले ।
मूर्खोऽपि प्राप्नोति कदाचिदर्था
न्कालो हि कार्यं प्रति निर्विशेषः ॥
प्राप्तुं विशेषैर्मनुजैरकाले ।
मूर्खोऽपि प्राप्नोति कदाचिदर्था
न्कालो हि कार्यं प्रति निर्विशेषः ॥
M N Dutt
By mere intelligence of study of the scriptures, men, if Time be not propitious, cannot acquire any earthly object. Sometimes an ignorant fool may acquire wealth. Time is the the powerful instrument for the accomplishment of all acts.
१२.२६.७
नाभूतिकाले च फलं ददाति
शिल्पं न मन्त्राश्च तथौषधानि ।
तान्येव कालेन समाहितानि
सिध्यन्ति चेध्यन्ति च भूतिकाले ॥
शिल्पं न मन्त्राश्च तथौषधानि ।
तान्येव कालेन समाहितानि
सिध्यन्ति चेध्यन्ति च भूतिकाले ॥
M N Dutt
During the hour of adversity, neither science, nor incantations, nor drugs, produce any fruits. In prosperity, however, those very things, applied, yield abundant fruits.
१२.२६.८
कालेन शीघ्राः प्रविवान्ति वाताः
कालेन वृष्टिर्जलदानुपैति ।
कालेन पद्मोत्पलवज्जलं च
कालेन पुष्यन्ति नगा वनेषु ॥
कालेन वृष्टिर्जलदानुपैति ।
कालेन पद्मोत्पलवज्जलं च
कालेन पुष्यन्ति नगा वनेषु ॥
M N Dutt
By time the winds blow violently; by Time the clouds become surcharged with rain; by Time tanks become adorned with lotuses of various sorts; by Time trees in the forest are covered with flowers.
१२.२६.९
कालेन कृष्णाश्च सिताश्च रात्र्यः
कालेन चन्द्रः परिपूर्णबिम्बः ।
नाकालतः पुष्पफलं नगानां
नाकालवेगाः सरितो वहन्ति ॥
कालेन चन्द्रः परिपूर्णबिम्बः ।
नाकालतः पुष्पफलं नगानां
नाकालवेगाः सरितो वहन्ति ॥
M N Dutt
By Time nights become dark or lighted. By Time the Moon becomes full. If the proper Time does not come, trees do not bear flowers and fruits. If the proper Time does not come, the currents of rivers do not become powerful.
१२.२६.१०
नाकालमत्ताः खगपन्नगाश्च
मृगद्विपाः शैलमहाग्रहाश्च ।
नाकालतः स्त्रीषु भवन्ति गर्भा
नायान्त्यकाले शिशिरोष्णवर्षाः ॥
मृगद्विपाः शैलमहाग्रहाश्च ।
नाकालतः स्त्रीषु भवन्ति गर्भा
नायान्त्यकाले शिशिरोष्णवर्षाः ॥
M N Dutt
Birds, snakes, deer, elephants and other animals never become excited when the proper Time does not come. If the proper Time does not come, women do not conceive. It is with Time that winter, summer, and the rainy seasons come.
१२.२६.११
नाकालतो म्रियते जायते वा
नाकालतो व्याहरते च बालः ।
नाकालतो यौवनमभ्युपैति
नाकालतो रोहति बीजमुप्तम् ॥
नाकालतो व्याहरते च बालः ।
नाकालतो यौवनमभ्युपैति
नाकालतो रोहति बीजमुप्तम् ॥
M N Dutt
If the proper Time does not come, no one is born and no one dies. If the Time does not come, the infant does not gain power of speech. If the Time does not come one does not come by youth. It is with Time that the seed sown sprouts up.
१२.२६.१२
नाकालतो भानुरुपैति योगं
नाकालतोऽस्तं गिरिमभ्युपैति ।
नाकालतो वर्धते हीयते च
चन्द्रः समुद्रश्च महोर्मिमाली ॥
नाकालतोऽस्तं गिरिमभ्युपैति ।
नाकालतो वर्धते हीयते च
चन्द्रः समुद्रश्च महोर्मिमाली ॥
M N Dutt
If the Time does not come, the Sun does not appear in the horizon, nor, when the Time for it does not come, does he set. If the Time for it does not come, the Moon does not increase nor wane, nor the ocean with its waves rise and ebb.
१२.२६.१३
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥
M N Dutt
In this connection is related the old story, O Yudhishthira, by king Senajit in sorrow.
१२.२६.१४
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः ।
कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः ॥
कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः ॥
M N Dutt
The powerful course of Time affects all mortals. All earthly objects, ripened by Time, meet with destruction.
१२.२६.१५
घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा ।
संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥
संज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥
M N Dutt
Some, O king, kill some men. The killers, again, are slain by others. This is what the world says. In reality, however, no one kills and no one is killed.
१२.२६.१६
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे ।
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥
M N Dutt
Some body thinks men kill (their fellow men). Another thinks men do not kill. The truth is that the birth and death of all creatures have been ordained to happen by their very nature.
१२.२६.१७
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥
अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥
M N Dutt
At the loss of one's riches or the death of one's wife or son or father, one cries out saying-Alas what grief!-and the continued thought of that sorrow always increases it.
१२.२६.१८
स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि ।
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥
M N Dutt
Why do you, like a foolish man, grieve? Why do you grieve for them who are subject to grief? Mark, grief is enhanced by indulgence as fear is by fearing.
१२.२६.१९
आत्मापि चायं न मम सर्वापि पृथिवी मम ।
यथा मम तथान्येषामिति पश्यन्न मुह्यति ॥
यथा मम तथान्येषामिति पश्यन्न मुह्यति ॥
M N Dutt
This body even is not mine. Nothing in this Earth is mine. The things of this Earth belong as much to others as to me. Seeing this, the wise do not allow themselves to be beguiled.
१२.२६.२०
शोकस्थानसहस्राणि हर्षस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥
M N Dutt
There are thousands of causes for sorrow and hundreds of causes for joy. These affect daily the ignorant only, but not the wise.
१२.२६.२१
एवमेतानि कालेन प्रियद्वेष्याणि भागशः ।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥
M N Dutt
These in course of Time. become objects of love or hatred, and appearing as happiness or misery revolve for affecting living creatures.
१२.२६.२२
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते ।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥
M N Dutt
There is only sorrow in this world and not happiness. Therefore sorrow only is felt. Desire begets sorrow and sorrow happiness.
१२.२६.२३
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥
M N Dutt
Sorrow comes after happiness. and happiness after sorrow. One does not always suffer sorrow or always enjoy happiness.
१२.२६.२४
सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च ।
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥
M N Dutt
Happiness always ends in sorrow and sometimes originates from sorrow itself. He, therefore, who desires perpetual happiness must give up both.
१२.२६.२५
यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः ।
आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥
आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥
M N Dutt
When sorrow must arise upon termination of happiness, and happiness upon the termination of sorrow, and should, therefore, shake off, like a (snake-bit) limb, that which begets sorrow or that heart-burning which is reared by sorrow or that which is the root of his anxiety.
१२.२६.२६
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥
M N Dutt
Be it happiness or be it misery, be it pleasant or be it otherwise, what comes to one should be enjoyed or put up with an unconquered heart.
१२.२६.२७
ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् ।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ॥
ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ॥
M N Dutt
O amiable king, if you do not in the least, do what is agreeable to your wives and children, you shall then know who is whose, and why so, and for what.
१२.२६.२८
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ॥
त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ॥
M N Dutt
Only those who stolid fools and those who are masters of their souls enjoy happiness here. They, however, who occupy an intermediate position suffering misery.
१२.२६.२९
इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् ।
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥
M N Dutt
This, O Yudhishthira, is what the highly wise the Senajit who was conversant with what is good or bad in this world, with duties, and with happiness and misery said.
१२.२६.३०
सुखी परस्य यो दुःखे न जातु स सुखी भवेत् ।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥
M N Dutt
He who is grieved at other people's griefs can never enjoy happiness. There is no end of grief, and grief originates from happiness itself.
१२.२६.३१
सुखं च दुःखं च भवाभवौ च
लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमिह स्पृशन्ति
तस्माद्धीरो नैव हृष्येन्न कुप्येत् ॥
लाभालाभौ मरणं जीवितं च ।
पर्यायशः सर्वमिह स्पृशन्ति
तस्माद्धीरो नैव हृष्येन्न कुप्येत् ॥
M N Dutt
Happiness and misery, prosperity and adversity, gain and loss, death and life, in their turn, visit all creatures. There the wise man, endued with equanimity soul would neither be puffed up with joy nor be depressed with sorrow.
१२.२६.३२
दीक्षां यज्ञे पालनं युद्धमाहु
र्योगं राष्ट्रे दण्डनीत्या च सम्यक् ।
वित्तत्यागं दक्षिणानां च यज्ञे
सम्यग्ज्ञानं पावनानीति विद्यात् ॥
र्योगं राष्ट्रे दण्डनीत्या च सम्यक् ।
वित्तत्यागं दक्षिणानां च यज्ञे
सम्यग्ज्ञानं पावनानीति विद्यात् ॥
M N Dutt
Battle has been described as the Sacrifice for a king; observance of chastisement is his Yoga; and the gift of riches in sacrifices in the form of presents his Renunciation. All these should be regarded as acts which purify him.
१२.२६.३३
रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन
संत्यक्तात्मा यज्ञशीलो महात्मा ।
सर्वाल्लोकान्धर्ममूर्त्या चरंश्चा
प्यूर्ध्वं देहान्मोदते देवलोके ॥
संत्यक्तात्मा यज्ञशीलो महात्मा ।
सर्वाल्लोकान्धर्ममूर्त्या चरंश्चा
प्यूर्ध्वं देहान्मोदते देवलोके ॥
M N Dutt
Having protected his kingdom with policy and intelligence, the great and self-controlled Hayagriva of great strength of mind and given to the performance of sacrifices filled all the worlds with his glory and is now sporting in the region of the celestials.
१२.२६.३४
जित्वा संग्रामान्पालयित्वा च राष्ट्रं
सोमं पीत्वा वर्धयित्वा प्रजाश्च ।
युक्त्या दण्डं धारयित्वा प्रजानां
युद्धे क्षीणो मोदते देवलोके ॥
सोमं पीत्वा वर्धयित्वा प्रजाश्च ।
युक्त्या दण्डं धारयित्वा प्रजानां
युद्धे क्षीणो मोदते देवलोके ॥
M N Dutt
By gaining battles, protecting his kingdom, drinking the Soma juice, making his subjects prosper, holding judiciously the rod of chastisement, and renouncing his body at last in fight, a king enjoy happiness in heaven.
१२.२६.३५
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य
सम्यग्राष्ट्रं पालयित्वा च राजा ।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे
पूतात्मा वै मोदते देवलोके ॥
सम्यग्राष्ट्रं पालयित्वा च राजा ।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे
पूतात्मा वै मोदते देवलोके ॥
M N Dutt
Having studied all the Vedas and the other scriptures duly, having protected the kingdom duly, and having made all the four orders follow their respective duties, a king become purified and finally sports in heaven.
१२.२६.३६
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः ।
पौरजानपदामात्याः स राजा राजसत्तमः ॥
पौरजानपदामात्याः स राजा राजसत्तमः ॥
M N Dutt
He is the best of kings whose conduct, even after his death, is praised by the denizens of the city and the country and by his counsellors and friends.
॥ इति १२.२६ ॥
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.