धृतराष्ट्र उवाच ।
१०.८.१
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे ।
कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ॥
कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम् ॥
M N Dutt
Dhritarashtra said “While Drona's son, that great car-warrior, thus proceeded towards the enemy's camp, did Kripa and Bhoja stop from fear.
१०.८.२
कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ ।
असह्यमिति वा मत्वा न निवृत्तौ महारथौ ॥
असह्यमिति वा मत्वा न निवृत्तौ महारथौ ॥
M N Dutt
I hope those two great car-warriors, stopped by mean guards, did not fly away secretly, considering their opponents irresistible.
१०.८.३
कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान् ।
दुर्योधनस्य पदवीं गतौ परमिकां रणे ॥
दुर्योधनस्य पदवीं गतौ परमिकां रणे ॥
M N Dutt
Or, have they, after despoiling the camp, the Somakas, and the Pandavas, followed, while still fighting, the highly illustrious path in which Duryodhana has gone.
१०.८.४
पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ ।
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय ॥
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय ॥
M N Dutt
Are those heroes, killed by the Panchalas, sleeping on the naked Earth? Did they perforin any feat? Tell me all this, O Sanjaya.
संजय उवाच ।
१०.८.५
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि ।
कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ॥
कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम् ॥
M N Dutt
Sanjaya said "When the great son of Drona proceeded towards the camp, Kripa and Kritavarman waited at the gate.
१०.८.६
अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ ।
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत् ॥
M N Dutt
Seeing them ready to work Ashvatthaman was overjoyed, and addressing them whisperingly, O king, said,-'If you two exert, you can exterminate all the Kshariyas.
१०.८.७
यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने ।
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः ॥
M N Dutt
What should I say, therefore, of this remnant of the (Pandava) ariny, particularly when it is asieep.
१०.८.८
अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत् ।
यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ॥
यथा न कश्चिदपि मे जीवन्मुच्येत मानवः ॥
M N Dutt
I shall enter the camp and move about like Yama. I am sure that you two will act in such a way that no man may escape alive.'
१०.८.९
इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत् ।
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः ॥
M N Dutt
Having said so, the son of Drona entered the extensive camp of the Parthas. Shorn of fear, he entered into it by a spot where there was no door.
१०.८.१०
स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह ।
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत् ॥
M N Dutt
Having entered the camp the great hero proceeded, guided by sings, very softly towards Dhrishtadyumna's quarters.
१०.८.११
ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे ।
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः ॥
M N Dutt
Having displayed great feats the Panchalas had been much exhausted in battle. They were sleeping confidently collected together, and by the side of one another.
१०.८.१२
अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत ।
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात् ॥
M N Dutt
Entering into Dhrishtadyumna's apartment, OBharata, Drona's son saw the prince of the Panchalas sleeping before him on his bed.
१०.८.१३
क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते ।
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते ॥
M N Dutt
He lay on a beautiful sheet of silk upon a rich and excellent bed. Excellent wreaths of flowers were scattered upon that bed and it was perfumed with the powder of incense.
१०.८.१४
तं शयानं महात्मानं विस्रब्धमकुतोभयम् ।
प्राबोधयत पादेन शयनस्थं महीपते ॥
प्राबोधयत पादेन शयनस्थं महीपते ॥
M N Dutt
Having received a kick from Ashvatthaman the high-souled prince who was sleeping trustfully and fearlessly on his bed, awoke.
१०.८.१५
स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः ।
अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ॥
अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम् ॥
M N Dutt
Feeling that kick, the great prince,! irresistible in battle, got up and recognised Drona's son standing before him.
१०.८.१६
तमुत्पतन्तं शयनादश्वत्थामा महाबलः ।
केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ॥
केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले ॥
M N Dutt
As he was rising from his bed, the great Ashvatthaman caught him by the hair of his ! head and began to press him down on the Earth with his hands.
१०.८.१७
स बलात्तेन निष्पिष्टः साध्वसेन च भारत ।
निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ॥
निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा ॥
M N Dutt
Thus pressed by Ashvatthaman with grea! force the prince, from fear as also from sleepiness, was not able to exert his might at that time.
१०.८.१८
तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः ।
नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥
नदन्तं विस्फुरन्तं च पशुमारममारयत् ॥
M N Dutt
Striking him with his foot, O king, on both his throat and breast while his victim roared, Drona's son tried to kill him as if he were an animal.
१०.८.१९
तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत् ।
आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ।
त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ॥
आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः ।
त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर ॥
M N Dutt
The Panchala prince tore Ashvatthaman with his nails and at last slowly said, — 'O preceptor's son, kill me with a weapon, do not delay. O best of men, let me, through you go to the blessed regions.'
१०.८.२०
तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत् ।
आचार्यघातिनां लोका न सन्ति कुलपांसन ।
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥
आचार्यघातिनां लोका न सन्ति कुलपांसन ।
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते ॥
M N Dutt
Hearing those indistinct sounds of his, Drona's son said,-'O wretch of your race, there is no region for those that kill their preceptor. For this, O wicked man, you do not deserve to be killed with any weapon.'
१०.८.२१
एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम् ।
मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ॥
मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः ॥
M N Dutt
While saying so, Ashvatthaman, worked up with rage, began to strike the vital parts of his victim with his heels, and killed his foe like a lion killing an infuriate elephant.
१०.८.२२
तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि ।
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः ॥
M N Dutt
At the cries of that hero, while he was being slain, his wives and guards that were in his tent all got up, O king.
१०.८.२३
ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम् ।
भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥
भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात् ॥
M N Dutt
Seeing some body crushing the prince with superhuman force, they took the assailant for a supernatural being, and, therefore, made no noise from fear.
१०.८.२४
तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम् ।
अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ॥
अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम् ॥
M N Dutt
Having sent him to Yamas abode by such means the greatly energetic, Ashvatthaman went out and getting upon his beautiful car waited there.
१०.८.२५
स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः ।
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली ॥
M N Dutt
Indeed, coming out of Dhrishtadyumna's camp, O king, Ashvatthaman made all the points of the horizon resound with his roars, and then proceeded on his car to other parts of the camp for killing his enemies.
१०.८.२६
अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे ।
सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ॥
सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा ॥
M N Dutt
After Drona's son, that great car-warrior, had gone away, the women and all the guards began to bewail.
१०.८.२७
राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः ।
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत ॥
M N Dutt
Secing their king killed, all the wives of Dhrishtady!mna, cried aloud sorrowfully.
१०.८.२८
तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः ।
क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ॥
क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन् ॥
M N Dutt
Hearing their lamentations many powerful, Kshatriyas, awaking, put on their armour and came there for inquiring after the cause of their lamentations.
१०.८.२९
स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम् ।
अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥
अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै ॥
M N Dutt
Terrified at seeing Ashvatthaman, those ladies in piteous tones asked the man to follow him without delay.
१०.८.३०
राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम् ।
हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ॥
हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति ॥
M N Dutt
They said, we know not whether he is a Rakshasa or a human being. Having killed the Panchala king he wait there.
१०.८.३१
ततस्ते योधमुख्यास्तं सहसा पर्यवारयन् ।
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत् ॥
M N Dutt
Thereat those foremost of warriors suddenly surrounded Drona's son. The latter killed them ail the means of the Rudra weapon.
१०.८.३२
धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान् ।
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके ॥
M N Dutt
Having killed Dhrishtadyumna and all those followers of his, he saw Uttamaujas sleeping on his bed.
१०.८.३३
तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा ।
तथैव मारयामास विनर्दन्तमरिंदमम् ॥
तथैव मारयामास विनर्दन्तमरिंदमम् ॥
M N Dutt
Attacking him with his foot on the throat and chest, Drona's son killed that great hero also while the latter suffered greatly.
१०.८.३४
युधामन्युस्तु संप्राप्तो मत्त्वा तं रक्षसा हतम् ।
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत् ॥
M N Dutt
Coming up and taking his comrade for being slain by a Rakshasa, Yudhamanyu speedily struck Drona's son in the chest with a mace.
१०.८.३५
तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत् ।
विस्फुरन्तं च पशुवत्तथैवैनममारयत् ॥
विस्फुरन्तं च पशुवत्तथैवैनममारयत् ॥
M N Dutt
Rushing towards him, Ashvatthaman seized him and brought him down to the ground and killed him like an animal while the latter cried aloud.
१०.८.३६
तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत् ।
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ।
स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान् ।
स्फुरतो वेपमानांश्च शमितेव पशून्मखे ॥
M N Dutt
Having killed Yudhamanyu thus, that hero went against the other car-warriors of the king, who were all asleep.
१०.८.४२
ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः ।
निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ॥
निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः ॥
M N Dutt
Those who got up from sleep, O Kuruhero, became stupefied with the loud noise they heard. Seeing Drona's son, they looked at each other's faces and trembled with fear.
१०.८.४३
तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः ।
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन् ॥
M N Dutt
Seeing the form of that crusher of foes, those Kshatriyas took him to be a Rakshasa and shut up their eyes.
१०.८.४४
स घोररूपो व्यचरत्कालवच्छिबिरे ततः ।
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥
M N Dutt
Of terrible form, he moved about in the camp like Yama himself, and at last saw the sons of Draupadi and the residue of the Somakas.
१०.८.४५
तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः ।
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ।
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते ।
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत् ॥
M N Dutt
Terrified by the noise, and learning that Dhrishtadyumna had been killed those great car-warriors, viz., the sons of Draupadi, armed with bows, shot arrows on Drona's son.
१०.८.४७
भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः ।
ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ॥
ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान् ॥
M N Dutt
Seeing them cast their arrows on him, Drona's son uttered a loud roar and became desirous of killing those great car-warriors.
१०.८.४८
ततः परमसंक्रुद्धः पितुर्वधमनुस्मरन् ।
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे ॥
M N Dutt
Remembering the death of his father, Ashvatthaman became furious with rage, getting down from his car, he made a desperate rush against his enemies.
॥ इति १०.८ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.