मन्त्रिण ऊचुः ।
१.४६.१
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् ।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥
M N Dutt
The Ministers said : O king of kings, that tired and hungry monarch, having placed the snake on the shoulder of the Rishi, came back to his own capital.
१.४६.२
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः ।
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥
M N Dutt
The Rishi had a son, born of a cow, named Shringi. He was greatly renowned, exceedingly powerful and greatly energetic and very wrathful.
१.४६.३
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह ।
अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ।
सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥
अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ।
सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥
M N Dutt
He went to Brahma and worshipped him. Commanded by him, Shringi was one day returning home,
१.४६.५
तपस्विनमतीवाथ तं मुनिप्रवरं नृप ।
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥
M N Dutt
O king, (he heard that your father had insulted the Rishi) who was a great ascetic, the best of Rishis, a controller of his passions, a pious and holy man, a door of wonderful deeds, his soul enlightened with asceticism and his senses and their functions under his complete control.
१.४६.७
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् ।
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥
M N Dutt
His practices were pious, his speeches pure. He was contented and had no avarice; he had not the least meanness, nor had he any avarice. He was old and observant of the vow of silence. And he was the refuge of all creatures. Such was the Rishi whom your father insulted. The son of that Rishi, however, cursed your father in anger.
१.४६.१०
अनागसि गुरौ यो मे मृतं सर्पमवासृजत् ।
तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ।
सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥
तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ।
सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥
M N Dutt
With reference to your father, burning as if in effulgence, “Behold my ascetic powers. The angry and effulgent snake Takshaka, as spoken by me, will burn with his poison, within seven nights hence, the wretch who has placed a dead snake on the shoulder of my sire.“ Having said this, he went to the place where his father was. Seeing his father, he told him of the curse uttered by him.
१.४६.११
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् ।
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥
१.४६.१२
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः ।
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ।
तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ।
तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥
M N Dutt
(Saying in the words of his preceptor) “O king, you have been cursed by my son. Takshaka will burn you with his poison. O great king, be careful.
१.४६.१३
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय ।
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥
M N Dutt
O Janamejaya, your father, having heard these terrible words, took every precaution against the powerful snake Takshaka.
१.४६.१४
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते ।
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥
M N Dutt
When the seventh day arrived, a Brahmana Rishi, named Kashyapa, wished to come to the king.
१.४६.१५
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा ।
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥
M N Dutt
The king of the snakes, Takshaka, saw Kashyapa and that king of the snakes asked that Brahmana, “Where are you going in a hurry? And what is your business for which you go?"
काश्यप उवाच ।
१.४६.१६
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज ।
तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै ॥
तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै ॥
M N Dutt
Kashyapa said : O Brahmana, I am going where the best of the Kurus, the king named Parikshit is. He will today be killed by the snake Takshaka.
१.४६.१७
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥
M N Dutt
I am going in a hurry to cure him, so that he, being treated by me, may not he killed by the snake.
तक्षक उवाच ।
मन्त्रिण ऊचुः ।
१.४६.१९
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः ।
तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥
तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥
M N Dutt
“I am going there with the desire of (getting) wealth.” The illustrious Takshaka, (thereupon) told him in sweet words,
१.४६.२०
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥
M N Dutt
"O sinless one, take from me more wealth than you expect to get from that king. And then go back."
१.४६.२१
स एवमुक्तो नागेन काश्यपो द्विपदां वरः ।
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥
M N Dutt
The best of men, Kashyapa, being thus addressed by the snake and having received from him as much wealth as he desired to get, went back.
१.४६.२२
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः ।
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥
M N Dutt
When the Brahman went back, Takshaka went in disguise to that best of kings, your virtuous father, who was then staying with all precautions in his palace; and he burnt him with the fire of his poison. After this (most lamentable event,) you, O best of kings, were installed on the throne.
१.४६.२३
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना ।
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥
M N Dutt
When the Brahman went back, Takshaka went in disguise to that best of kings, your virtuous father, who was then staying with all precautions in his palace; and he burnt him with the fire of his poison. After this (most lamentable event,) you, O best of kings, were installed on the throne.
१.४६.२४
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम ।
अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥
अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥
M N Dutt
O best of kings, we have told you all that we saw and heard, though the account is te: ible and cruel.
१.४६.२५
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् ।
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥
M N Dutt
O best of kings, you have now heard how (your father) the great king of the world was killed and how Rishi Uttanka was insulted, do what is proper.
जनमेजय उवाच ।
मन्त्रिण ऊचुः ।
१.४६.२८
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा ।
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥
M N Dutt
The Ministers said : O king, hear from whom we heard the conversation between that king of the Brahmanas and the king of the snakes.
१.४६.२९
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव ।
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ।
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ।
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥
M N Dutt
O king, a certain man had climbed that lord of the forest to collect its dry twigs for sacrificial fuel.
१.४६.३२
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् ।
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥
M N Dutt
And told us in detail what happened between Takshaka and the Brahmana. O king, we are thus able to tell you what we saw or heard. O best of kings, having heard it, do what should be done now.
सूत उवाच ।
१.४६.३३
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः ।
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥
M N Dutt
Sauti said : Having heard the words of the ministers, the king Janamejaya began to weep in grief and squeezed his hands.
१.४६.३४
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः ।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ।
उवाच च महीपालो दुःखशोकसमन्वितः ॥
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ।
उवाच च महीपालो दुःखशोकसमन्वितः ॥
M N Dutt
The lotus-eyed king breathed long and hot breaths; the king shed tears and wept aloud.
१.४६.३५
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति ।
निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥
निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥
M N Dutt
Janamejaya said : I have heard your account of my father's ascension to heaven. Know now what is my fixed resolve. No time should be lost to avenge the wretch Takshaka who killed my father. The wretch killed the king, making Shringi a mere pretext.
१.४६.३७
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् ।
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥
M N Dutt
Out of malignity alone he prevented Kashyapa from coming. If that Brahmana had come, my father would have certainly lived.
१.४६.३८
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः ।
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥
M N Dutt
What harm could have possibly come to him if the king had revived by the grace of Kashyapa and the precautions taken by the ministers?
१.४६.३९
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् ।
संजिजीवयिषुं प्राप्तं राजानमपराजितम् ॥
संजिजीवयिषुं प्राप्तं राजानमपराजितम् ॥
M N Dutt
He, being ignorant of my anger, prevented that best of Brahmana, Kashyapa, from coming to my unconquerable father.
१.४६.४०
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः ।
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥
M N Dutt
The aggression of the wretch Takshaka is great, for he gave wealth to the Brahmana, so that he might not revive the king.
१.४६.४१
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् ।
भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥
भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥
M N Dutt
I must avenge myself on my father's enemy, to please myself, to please Uttanka and you all.
॥ इति १.४६ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.