तृतीयस्तरङ्गः ।
१८.३.१
ततः स विक्रमादित्यो जयसैन्यमवाप तत् ।
अधिष्ठितं स्वसेनान्या तेन विक्रमशक्तिना ॥
अधिष्ठितं स्वसेनान्या तेन विक्रमशक्तिना ॥
Summary
AI
Then King Vikramāditya reached that victorious army which was commanded by his general, Vikramaśakti.
१८.३.२
अग्रागतेन तेनैव सोत्केन प्रणतात्मना ।
सराजकेन सहितः स्वबलं स विवेश च ॥
सराजकेन सहितः स्वबलं स विवेश च ॥
Summary
AI
Accompanied by Vikramaśakti, who came forward eagerly and bowed with humility along with other kings, the king entered his own army.
१८.३.३
गौडः शक्तिकुमारो ऽयं कर्णाटो ऽयं जयध्वजः ।
लाटो विजयवर्मायं काश्मीरो ऽयं सुनन्दनः ॥
लाटो विजयवर्मायं काश्मीरो ऽयं सुनन्दनः ॥
Summary
AI
"This is Śaktikumāra of Gauḍa, this is Jayadhvaja of Karṇāṭa, this is Vijayavarmā of Lāṭa, and this is Sunandana of Kāśmīra."
१८.३.४
गोपालः सिन्धुराजो ऽयं भिल्लो विन्ध्यबलो ऽप्ययम् ।
निर्मूकः परसीको ऽयं नृपः प्रणमति प्रभो ॥
निर्मूकः परसीको ऽयं नृपः प्रणमति प्रभो ॥
Summary
AI
"O Lord! This is Gopāla, the King of Sindhu; this too is Vindhyabala, the Bhilla chief; and this Persian king, Nirmūka, bows to you."
१८.३.५
इत्यास्थाने नृपान्सो ऽत्र प्रतीहारनिवेदितान् ।
सम्राट्संमानयामास सामन्तान्सैनिकानपि ॥
सम्राट्संमानयामास सामन्तान्सैनिकानपि ॥
Summary
AI
Thus, in the assembly, the emperor honored the kings introduced by the doorkeeper, as well as the feudatory chiefs and soldiers.
१८.३.६
सिंहलेन्रसुतादिव्यकन्याहेममृगांश्च तान् ।
यथार्हं सत्करोति स्म स सविक्रमशक्तिकान् ॥
यथार्हं सत्करोति स्म स सविक्रमशक्तिकान् ॥
Summary
AI
He appropriately honored the daughter of the King of Siṃhala, the celestial maidens, the golden deer, and Vikramaśakti.
१८.३.७
तैः समं सबलो ऽन्येद्युः प्रतस्थे च ततः कृती ।
स राजा विक्रमादित्यः प्राप चोज्जयिनीं पुरीम् ॥
स राजा विक्रमादित्यः प्राप चोज्जयिनीं पुरीम् ॥
Summary
AI
On the following day, the successful King Vikramāditya set out with them and his army, eventually reaching the city of Ujjayinī.
१८.३.८
संमानितविसृष्टेषु स्वदेशानथ राजसु ।
जगदानन्दिनि प्राप्ते वसन्तसमयोत्सवे ॥
जगदानन्दिनि प्राप्ते वसन्तसमयोत्सवे ॥
Summary
AI
After the kings had been honored and dismissed to their own countries, and when the festival of the spring season, which delights the world, had arrived.
१८.३.९
लतासु पुष्पाभरणैर्मण्डनं कुर्वतीष्विव ।
तन्वतीष्विव संगीतं भृङ्गयोषित्सु गुञ्जितैः ॥
तन्वतीष्विव संगीतं भृङ्गयोषित्सु गुञ्जितैः ॥
Summary
AI
While the creepers seemed to decorate themselves with ornaments of flowers, and female bees seemed to spread music with their humming.
१८.३.१०
नृत्यन्तीष्विव चाश्लिष्टमरुत्सु वनराजिषु ।
पिकेषु कलशब्देषु मङ्गलानि पठत्स्विव ॥
पिकेषु कलशब्देषु मङ्गलानि पठत्स्विव ॥
Summary
AI
While the rows of forest trees, embraced by the wind, seemed to dance, and the cuckoos with their sweet notes seemed to recite auspicious hymns.
१८.३.११
सो ऽत्र ता विक्रमादित्यः परिणिन्ये शुभे ऽहनि ।
सिंहलेश्वरकन्यां तां ते च द्वे दिव्यकन्यके ॥
सिंहलेश्वरकन्यां तां ते च द्वे दिव्यकन्यके ॥
Summary
AI
There, on an auspicious day, Vikramāditya married that daughter of the King of Siṃhala and those two celestial maidens.
१८.३.१२
सिंहलेश्वरकन्याया ज्येष्ठो भ्राता सहागतः ।
सिंहवर्मा ददौ वेद्यां महान्तं रत्नसंचयम् ॥
सिंहवर्मा ददौ वेद्यां महान्तं रत्नसंचयम् ॥
Summary
AI
Siṃhavarmā, the eldest brother of the princess of Siṃhala who had come along, gave a vast heap of jewels at the marriage altar.
१८.३.१३
तत्कालमेत्य च तयोर्यक्षिणी दिव्यकन्ययोः ।
असंख्यान्रत्नराशीन्सा ददौ मदनमञ्जरी ॥
असंख्यान्रत्नराशीन्सा ददौ मदनमञ्जरी ॥
Summary
AI
At that time, the Yakṣiṇī Madanamañjarī arrived and gave countless heaps of jewels on behalf of those two celestial maidens.
१८.३.१४
शक्ताहं गन्तुमानृण्यं देव त्वत्सुकृतस्य किम् ।
किं तु दर्शयितुं भक्तिं नैतत्किंचित्कृतं मया ॥
किं तु दर्शयितुं भक्तिं नैतत्किंचित्कृतं मया ॥
Summary
AI
"O Lord! How can I ever repay the debt of your good deeds? I have done this little act merely to demonstrate my devotion."
१८.३.१५
तत्प्रसादो ऽनयोः कार्यः कन्ययोर्हरिणस्य च ।
इत्युक्त्वा च तिरो ऽभूत्सा यक्षी राज्ञाभिपूजिता ॥
इत्युक्त्वा च तिरो ऽभूत्सा यक्षी राज्ञाभिपूजिता ॥
Summary
AI
"Therefore, please show favor to these two maidens and the deer." Having said this, and being honored by the king, the Yakṣiṇī vanished.
१८.३.१६
ततः संप्राप्य भार्यास्ताः सद्वीपां च महीं कृती ।
शशास विक्रमादित्यो राजा राज्यमकण्टकम् ॥
शशास विक्रमादित्यो राजा राज्यमकण्टकम् ॥
Summary
AI
Then, having obtained those wives and the entire earth including its islands, the successful King Vikramāditya ruled his kingdom without any thorns or obstacles.
१८.३.१७
सुखितश्चास्त विहरंस्तदा चोद्यानभूमिषु ।
ग्रीष्मे जलेषु सरसां धारायन्त्रगृहेषु च ॥
ग्रीष्मे जलेषु सरसां धारायन्त्रगृहेषु च ॥
Summary
AI
During the summer, he lived happily, sporting in the waters of lakes, in fountain-houses, and in garden grounds.
१८.३.१८
वर्षास्वन्तःपुरेषूद्यन्मृदङ्गरवहारिषु ।
शरदीन्दूदयापानहृद्यहर्म्यतलेष्वपि ॥
शरदीन्दूदयापानहृद्यहर्म्यतलेष्वपि ॥
Summary
AI
During the rainy season, he stayed in the inner apartments charming with the sound of drums, and in autumn, on palace roofs delightful for drinking parties under the rising moon.
१८.३.१९
आस्तीर्णसुखशय्येषु कालागुरुसुगन्धिषु ।
वासवेश्मसु हेमन्ते च नृपो ऽन्तःपुरैर्वृतः ॥
वासवेश्मसु हेमन्ते च नृपो ऽन्तःपुरैर्वृतः ॥
Summary
AI
In the winter, surrounded by the ladies of his harem, the king remained in dwelling-rooms fragrant with black aloe-wood and furnished with comfortable beds.
१८.३.२०
तस्येदृशस्य राज्ञश्च नगरस्वामिसंज्ञकः ।
बभूव ग्रामशतभुक्चित्रकृज्जितविश्वकृत् ॥
बभूव ग्रामशतभुक्चित्रकृज्जितविश्वकृत् ॥
Summary
AI
This king had a subject named Nagarasvāmin, a painter who surpassed the divine architect Viśvakarman and was the lord of a hundred villages.
१८.३.२१
स द्व्यहेन द्व्यहेनास्मै राज्ञे प्राभृतपुत्रिकाम् ।
लिखित्वान्यान्यया रूपभङ्ग्या चित्रकरो ददौ ॥
लिखित्वान्यान्यया रूपभङ्ग्या चित्रकरो ददौ ॥
Summary
AI
Every two days, the painter presented a new doll to the king, painted with a different graceful form as a gift.
१८.३.२२
एकदा चोत्सववशाद्विस्मृत्य लिखिता न सा ।
तेन चित्रकृता दैवात्पुत्रिका नृपतेः कृते ॥
तेन चित्रकृता दैवात्पुत्रिका नृपतेः कृते ॥
Summary
AI
Once, due to a festival, the painter accidentally forgot to paint the doll intended for the king.
१८.३.२३
प्राप्ते च प्राभृतदिने स्मृत्वा यावत्समाकुलः ।
आस्ते चित्रकरो हा किं ढौकयेयं प्रभोरिति ॥
आस्ते चित्रकरो हा किं ढौकयेयं प्रभोरिति ॥
Summary
AI
When the day of the gift arrived, the painter remembered his lapse and became distressed, wondering what he could possibly offer to the lord.
१८.३.२४
तावद्दूरागतः कोऽपि पान्थो ऽकस्मात्तमभ्यधात् ।
स चास्य पुस्तिकां हस्ते न्यस्यैव क्वाप्यगाल्लघु ॥
स चास्य पुस्तिकां हस्ते न्यस्यैव क्वाप्यगाल्लघु ॥
Summary
AI
Just then, a traveler from afar approached him unexpectedly, handed a small book into his hand, and quickly disappeared.
१८.३.२५
कौतुकाच्च स यावत्तामुद्घाटयति चित्रकृत् ।
तावद्ददर्श तत्रान्तश्चित्रस्थां पुत्रिकां पटे ॥
तावद्ददर्श तत्रान्तश्चित्रस्थां पुत्रिकां पटे ॥
Summary
AI
Out of curiosity, when the painter opened the book, he saw a doll depicted on a cloth inside.
१८.३.२६
दृष्ट्वैवाद्भुतरूपां तां नीत्वा नृपतये ददौ ।
प्राभृतं प्रत्युतेदृङ्मे सिद्धमद्येति हर्षुलः ॥
प्राभृतं प्रत्युतेदृङ्मे सिद्धमद्येति हर्षुलः ॥
Summary
AI
Beholding its wonderful beauty, he joyfully presented it to the king, delighted that such a magnificent gift was ready for him today.
१८.३.२७
नृपतिस्तां तु दृष्ट्वैव साश्चर्यः स जगाद तम् ।
न भद्र तव रेखेयं रेखेयं विश्वकर्मणः ॥
न भद्र तव रेखेयं रेखेयं विश्वकर्मणः ॥
Summary
AI
Upon seeing it, the king said with astonishment, "Friend, this is not your handiwork; this is the craftsmanship of Viśvakarman."
१८.३.२८
मानुषो हि कुतो वेत्ति लिखितुं रूपमीदृशम् ।
तच्छ्रुत्वा चित्रकृद्राज्ञे यथावृत्तं शशंस सः ॥
तच्छ्रुत्वा चित्रकृद्राज्ञे यथावृत्तं शशंस सः ॥
Summary
AI
"How could a mere mortal know how to paint such beauty?" Hearing this, the painter told the king everything that had happened.
१८.३.२९
ततः सो ऽनन्यदृग्राजा तां पश्यन्पुत्रिकां सदा ।
स्वप्ने द्वीपान्तरे ऽद्राक्षीत्तद्रूपामेव कन्यकाम् ॥
स्वप्ने द्वीपान्तरे ऽद्राक्षीत्तद्रूपामेव कन्यकाम् ॥
Summary
AI
Then, the king, looking at that doll with undivided attention, saw a maiden of the same form in another island during a dream.
१८.३.३०
संगमं भजते यावत्सोकः सोत्सुकया तया ।
तावत्प्रबोधितः सो ऽभूद्यामिकेन निशाक्षये ॥
तावत्प्रबोधितः सो ऽभूद्यामिकेन निशाक्षये ॥
Summary
AI
Just as he was uniting with the eager maiden, he was awakened at the end of the night by the watchman.
१८.३.३१
प्रबुद्धो भग्नतत्स्वप्नसमागमसुखश्च सः ।
यामिकं तं क्रुधा राजा नगर्या निरकालयत् ॥
यामिकं तं क्रुधा राजा नगर्या निरकालयत् ॥
Summary
AI
Awakening with the joy of his dream-union shattered, the king angrily banished the watchman from the city.
१८.३.३२
क्व पान्थः पुस्तिका क्वास्य क्व तस्यां चित्रपुत्रिका ।
तस्या एव सजीवायाः स्वप्ने संदर्शनं क्व च ॥
तस्या एव सजीवायाः स्वप्ने संदर्शनं क्व च ॥
Summary
AI
The king wondered at the sequence: where did the traveler come from, where did his book come from, where did the painted doll come from, and where did the dream-vision of her alive come from?
१८.३.३३
तदेषा दैवघटना कन्या सास्तीति वक्ति मे ।
न च जानामि तद्द्वीपं प्राप्नुयां तत्कथं नु ताम् ॥
न च जानामि तद्द्वीपं प्राप्नुयां तत्कथं नु ताम् ॥
Summary
AI
"This chain of events tells me that the maiden exists, but I do not know that island; how then can I reach her?"
१८.३.३४
इत्यादि चिन्तयन्सो ऽथ सर्वत्रारतिमान्नृपः ।
स्मरज्वरेण जज्वाल पर्याकुलपरिच्छदः ॥
स्मरज्वरेण जज्वाल पर्याकुलपरिच्छदः ॥
Summary
AI
Thinking thus, the king, finding no pleasure anywhere and with his attendants in disarray, burned with the fever of love (smara-jvara).
१८.३.३५
ससंतापश्च विजये क्षत्रा भद्रायुधेन सः ।
शनैस्तत्कारणं पृष्टो जगादैवं महीपतिः ॥
शनैस्तत्कारणं पृष्टो जगादैवं महीपतिः ॥
Summary
AI
When the distressed king was gently asked the reason by his chamberlain Bhadrāyudha in Vijayā, the monarch spoke as follows.
१८.३.३६
शृणु तद्वच्मि ते मित्त्रं ज्ञातं तावददस्त्वया ।
यच्चित्रपुत्रिका तेन दत्ता चित्रकरेण मे ॥
यच्चित्रपुत्रिका तेन दत्ता चित्रकरेण मे ॥
Summary
AI
"Listen, friend, I will tell you. You already know about the painted doll that was given to me by the painter."
१८.३.३७
तां चिन्तयंश्च सुप्तो ऽहं स्वप्ने जानामि वारिधिम् ।
उत्तीर्य प्राप्य नगरं प्रविष्टो ऽस्म्यतिसुन्दरम् ॥
उत्तीर्य प्राप्य नगरं प्रविष्टो ऽस्म्यतिसुन्दरम् ॥
Summary
AI
"Thinking of her, I fell asleep and dreamt that I crossed the ocean, reached a city, and entered a place of extreme beauty."
१८.३.३८
तत्रापश्यमहं बह्वीः सायुधाः कन्यकाः पुरः ।
ता मां दृष्ट्वा जहि जहीत्युच्चैः कलकलं व्यधुः ॥
ता मां दृष्ट्वा जहि जहीत्युच्चैः कलकलं व्यधुः ॥
Summary
AI
"There I saw many armed maidens before me. Seeing me, they raised a loud clamor, shouting, 'Kill him! Kill him!'"
१८.३.३९
ततः ससंभ्रमा कापि जाने मामेत्य तापसी ।
प्रवेश्यैव निजं गेहं संक्षेपादिदमब्रवीत् ॥
प्रवेश्यैव निजं गेहं संक्षेपादिदमब्रवीत् ॥
Summary
AI
"Then, I recall that a certain female ascetic (tāpasī) hurriedly approached me, led me into her house, and spoke these words briefly."
१८.३.४०
पुरुषद्वेषिणी पुत्र राजपुत्रीयमागता ।
इतो मलयवत्याख्या विहरन्ती यदृच्छया ॥
इतो मलयवत्याख्या विहरन्ती यदृच्छया ॥
Summary
AI
"O son, this princess named Malayavatī, who hates men, has come here wandering at her own will."
१८.३.४१
दृष्टमात्रं च पुरुषं कन्याभिर्घातयत्यसौ ।
एताभिस्तेन रक्षार्थं मयेह त्वं प्रवेशितः ॥
एताभिस्तेन रक्षार्थं मयेह त्वं प्रवेशितः ॥
Summary
AI
She causes any man seen by these maidens to be killed. Therefore, for your protection, I have brought you here along with them.
१८.३.४२
इत्युक्त्वा तापसी सद्यः स्त्रीवेषं सा व्यधान्मम ।
अवध्याः कन्यकास्तास्तु मत्वा सोढं मयापि तत् ॥
अवध्याः कन्यकास्तास्तु मत्वा सोढं मयापि तत् ॥
Summary
AI
Having said this, the female ascetic immediately dressed me in women's attire. Thinking those maidens to be inviolable, I also endured that.
१८.३.४३
यावत्प्रविष्टामत्रैव सकन्यां तां नृपात्मजाम् ।
पश्यामि तावच्चित्रस्था या मयादर्शि सैव सा ॥
पश्यामि तावच्चित्रस्था या मयादर्शि सैव सा ॥
Summary
AI
As soon as I saw the princess entering there with her maidens, I realized she was the very same woman I had seen in the painting.
१८.३.४४
अचिन्तयं च धन्यो ऽहं यच्चित्रलिखितामिमाम् ।
दृष्ट्वा पुनश्च पश्यामि साक्षात्प्राणसमामिति ॥
दृष्ट्वा पुनश्च पश्यामि साक्षात्प्राणसमामिति ॥
Summary
AI
I thought to myself, 'I am blessed because, having first seen her in a painting, I now behold this woman, dearer than life itself, in person.'
१८.३.४५
राजपुत्री च सा तावत्तापसीं तां सकन्यका ।
दृष्टो ऽस्माभिः प्रविष्टो ऽत्र पुमान्को ऽपीत्यभाषत ॥
दृष्टो ऽस्माभिः प्रविष्टो ऽत्र पुमान्को ऽपीत्यभाषत ॥
Summary
AI
Meanwhile, the princess, accompanied by her maidens, said to the ascetic, 'We saw some man enter here.'
१८.३.४६
पुमान्कुतः प्राघुणिका स्थितैषा मे स्वसुः सुता ।
इति तां तापसी सापि प्रत्यवोचत्प्रदर्श्य माम् ॥
इति तां तापसी सापि प्रत्यवोचत्प्रदर्श्य माम् ॥
Summary
AI
'Where is a man? This is my sister's daughter who has come as a guest,' replied the ascetic, pointing toward me.
१८.३.४७
ततः सा राजतनया स्त्रीरूपमपिवीक्ष्य माम् ।
विस्मृत्य पुरुषद्वेषं सद्यः स्मरवशाभवत् ॥
विस्मृत्य पुरुषद्वेषं सद्यः स्मरवशाभवत् ॥
Summary
AI
Then that princess, though seeing me in female form, forgot her hatred for men and immediately fell under the power of Kāmadeva.
१८.३.४८
आसीत्कण्टकिता किंचिच्चिन्तयन्तीव निश्चला ।
लब्धच्छिद्रेण कामेन कीलितेव समं शरैः ॥
लब्धच्छिद्रेण कामेन कीलितेव समं शरैः ॥
Summary
AI
She stood motionless, as if deep in thought, her hair standing on end, appearing as though pierced and pinned down by the arrows of Kāmadeva, who had found an opening.
१८.३.४९
क्षणाच्च तापसीं तां सा व्याहरद्रजकन्यका ।
तर्ह्यार्येत्वत्स्वसृसुता ममापि प्राघुणी न किम् ॥
तर्ह्यार्येत्वत्स्वसृसुता ममापि प्राघुणी न किम् ॥
Summary
AI
A moment later, the princess said to the ascetic, 'Noble lady, if she is your sister's daughter, is she not my guest as well?'
॥ इति तृतीयस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.