तदभिमुखश्च किंचिदध्वानं गत्वा, केतकीसूचिखण्डपाण्डुरेण वनद्विरददन्तकपाटेन परिवृताम्, लोहतोरणेन च रक्तचामरालिपरिकरां कालायसदर्पणमण्डलमालां बिभ्राणेन सनाथीकृतद्वारदेशाम्,
अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुणयमकरतलास्फालतेनेव शोणितलवलोभलोलशिवालिह्यमानलोहितलोचनेन लोहमहिषेण अध्यासिताञ्जनशिलावेदिकाम्, क्वचिदङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तनयनसहस्रैः फलितामिव मुण्डमण्डलैरुपहारहिंसां दर्शयन्तीम्, शाखान्तरालनिरन्तरनिलीनरक्तकुक्कुटकुलैश्च भयादकालदर्शितकुसुमस्तबकैरिव रक्ताशोकविटपैर्विभूषिताङ्गणाम्, अवलम्बमानदीपधूमरक्तांशुकेन ग्रथितशिखिगलवलयावलिना पिष्टपिण्डपाण्डुरितघनघण्टामालभारिणा त्रापुषसिंहमुखम् अध्यस्थितस्थूललोहकण्टकदत्तदन्तदण्डार्गलं लसत्पीतनीललोहितदर्पणस्फुरितबुद्बुदमालं कपाटपट्टद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, पतितकृष्णचामरप्रतिबिम्बानां च शिरश्छेदलग्नकेशजालकानामिव परशुपट्टिशप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्वद्धबहलान्धकारतया पातालनिवासिनीमिवोपलक्ष्यमाणाम्, रक्तचन्दनखचितस्फुरत्फलपल्लवकलितैश्च बिल्वपत्रदामभिर्बालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, प्रलम्बकूर्चधरैश्छागैरपि धृतव्रतैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम् ,
॥ इति चण्डिकावर्णना ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.