स हि भगवान् कालत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव करतलगतमिव जगदवलोकयति । वेत्ति जन्मान्तराण्यतीतानि । कथयत्यागामिनमत्यर्थम् । यतः सर्वैव तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा ' कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, जन्मान्तरे वा कोऽयमासीत् ' इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् — " आवेदय, प्रसीद, भगवन्, कीदृशस्याविनयस्य फलमनेनानुभूयते । कश्चायमासीज्जन्मान्तरे । विहगजातौ कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान् प्रभवः ” इति ॥
एवमुपयाच्यमानस्तु तपोधनपरिषदा स महामुनिः प्रत्यवदत् — “अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति देवार्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व एव तावदाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्णसमये भवतां पुनः कृतमूलफलाशनानां विस्रब्धोपविष्टानामादितः प्रभृति सर्वमावेदयिष्यामि — योऽयम्, यच्चानेन कृतमपरस्मिञ्जन्मनि, इह लोके यथास्य संभूतिः। अयं च तावदपगतक्लमः क्रियतामाहारेण । नियतमयमप्यात्मनो जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति” इत्यभिदधदेवोत्थाय सह मुनिभिः स्नानादिकमुचितं दिवसव्यापारमकरोत् ॥
अनेन च समयेन परिणतो दिवसः । अपरसागराम्भासि पतिते दिनकरे पतनवेगोस्थितमम्भःशीकरनिकरमिव तारागणमम्बरमधारयत् । क्षयमुपगतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनवमवहत् । अपहाय मुनिजनहृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । विगलितसकलोदयरागं रजनिकरबिम्बम् अम्बरापगावगाहधौतसिन्दूरम् ऐरावतकुम्भस्थलमिव तत्क्षणमलक्ष्यत । शनैः शनैश्च दूरोदिते भगवति हिमततिस्रुति, सुधाधूलिपटलेनेव धवलीकृते चन्द्रातपेन जगति, अर्धयाममात्रावखण्डितायां विभावर्याम्, हारीतः कृताहारं मामादाय सर्वैस्तैः सह मुनिभिरुपसृत्य, चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोपविष्टं पितरमवोचत् — “ हे तात, सकलेयमाश्चर्यश्रवणकुतूहलाकलितहृदया समुपस्थिता तापसपरिषदाबद्धमण्डला प्रतीक्षते । व्यपनीतश्रमश्च कृतोऽयं पतत्रिपोतः । तदावेद्यताम्, यदनेन कृतमपरस्मिञ्जन्मनि, कोऽयमभूत्, भविष्यति च ” इति । एवमुक्तस्तु स महामुनिरग्रतः स्थितं मामवलोक्य, तांश्च सर्वानेकाग्राञ्छ्रवणपरान् मुनीन् बुद्ध्वा, शनैः शनैरब्रवीत् । “ श्रूयतां यदि कुतूहलम् ” ॥
॥ इति वैशम्पायनमुद्दिश्य तापसानां कतूहलम्, वैशम्पायनकथारम्भः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.