२.३०

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥

अन्वयः

भारत, सर्वस्य देहे अयम् देही नित्यम् अवध्यः अस्ति। तस्मात् त्वम् सर्वाणि भूतानि शोचितुम् न अर्हसि।

English Summary

O descendant of Bharata, the dweller in the body (the Self) is eternally indestructible within every being's body. Therefore, you should not grieve for any living creature.

पदच्छेदः

देहीदेहिन् (१.१) The embodied one
नित्यम्नित्यम् always
अवध्यःअवध्य (१.१) indestructible
अयम्इदम् (१.१) this
देहेदेह (७.१) in the body
सर्वस्यसर्व (६.१) of everyone
भारतभारत (८.१) O Bharata
तस्मात्तद् (५.१) therefore
सर्वाणिसर्व (२.३) all
भूतानिभूत (२.३) beings
not
त्वम्युष्मद् (१.१) you
शोचितुम्शोचितुम् (√शुच्+तुमुन्) to grieve
अर्हसिअर्हसि (√अर्ह् कर्तरि लट् (परस्मै.) म.पु. एक.) should

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे ही नित्य ध्यो ऽयं
दे हे र्वस्य भा
स्मा त्स र्वाणि भू तानि
त्वं शोचितुर्हसि