६.१४

यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥

अन्वयः

चित्रे यत् यत् साधु न स्यात्, तत् तत् अन्यथा क्रियते । तथापि तस्याः लावण्यम् रेखया किञ्चित् अन्वितम् (एव) ।

English Summary

Whatever is not perfectly rendered in the portrait, I am correcting. Even so, her true loveliness is only faintly captured by this sketch.

पदच्छेदः

यत्यद् (१.१) whatever
यत्यद् (१.१) whatever
साधुसाधु (१.१) well-done
not
चित्रेचित्र (७.१) in the picture
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) may be
क्रियतेक्रियते (√कृ भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is done
तत्तद् (१.१) that
तत्तद् (१.१) that
अन्यथाअन्यथा otherwise
तथापितथापि even so
तस्याःतद् (६.१) her
लावण्यम्लावण्य (१.१) loveliness
रेखयारेखा (३.१) by the sketch
किञ्चित्किञ्चित् only a little
अन्वितम्अन्वित (अनु√इ+क्त, १.१) captured

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य त्साधु चि त्रे स्या
त्क्रि तेत्तन्य था
थापि स्या ला ण्यं
रे या किंचिन्वि तम्