९.८२
प्राप्तानुगः सपदि शासनमस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदमात्मविनाशहेतुं शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥
सञ्जीविनीटीका (मल्लिनाथः) प्राप्तेति॥ प्राप्तानुगः प्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काषअठसंभारणरूपं प्रागेकोऽपि संप्रति प्राप्तानुचरत्वात्संपाद्य पातकेन मुनिवधरूपेण विलुप्तधृतिर्नष्टोत्साहः सन्। अन्तर्निविष्टपदमन्तर्लब्धस्थानमात्मविनाशहेतुं शापम्। अम्बुराशिरौर्वं ज्वलनं वडवानलमिव। और्वस्तु वाडवो वडवानलः इत्यमरः (अमरकोशः १.१.६८ ) । दधद्धृतवान्सन्। निवृत्तः। वनादिति शेषः ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
प्रा प्तानु गःदि शास्य रा जा
सं पाद्य पावि लुप्तधृ तिर्नि वृ त्तः
न्तर्नि विष्ट मात्मवि ना हे तुं
शा पंज्ज्व मौर्वमि वाम्बु रा शिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.