१०.१
पृथिवीं शासतस्तस्य पाकशासवतेजसः ।
किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥
सञ्जीविनीटीका (मल्लिनाथः) पृथिवीमिति॥ पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः। अनूनर्द्धेर्महासमृद्धेस्तस्य दशरथस्य किंचिदूनमीषन्न्यूनं शरदां वत्सराणाम्। स्यादृतौ वत्सरे शरत् इत्यमरः (अमरकोशः ३.३.१०० ) । अयुतं दशसहस्रं ययौ। एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयुतम्। कोट्यर्बुदं च पद्मं स्थानात्स्थानं दशगुणं स्यात्॥ इत्यार्यभट्टः। इदं च मुनिशापात्परं वेदितव्यं, न तु जननात्। षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक!। दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि॥(बाल.२०।१०)इतिरामायणविरोधात्। नाप्यभिषेकात्परम्, तस्यापि सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्प्रजानाम्(८।९४) इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पृथि वीं शा स्तस्य
पा शा ते सः
किंचि दू नू र्द्धेः
दायु तं यौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.