९.७८
तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातमुदहारयतामुरास्तः ।
सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥
सञ्जीविनीटीका (मल्लिनाथः) ताविति॥ तौ जाया च पतिश्च दंपती। राजदन्तादिषु जायाशब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः। दंपती जंपती जायापती भार्यापती च तौ इत्यमरः (अमरकोशः १.६.१६ ) । बहु विलप्य भूयिष्ठं परिदेव्य। विलापः परिदेवनम् इत्यमरः (अमरकोशः १.६.१६ ) । शिशोरुरस्तो वक्षसः। पञ्चम्यास्तसिल् (अष्टाध्यायी ५.३.७ ) । निखातं शल्यं शरं प्रहर्त्रा राज्ञोदहारयतामुद्धारयामासतुः। स शिशुः परासुर्गतप्राणोऽभूत्। अथ वृद्धो हस्तार्पितैर्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
तौ दं तीहुविप्यशि शोःप्र र्त्रा
ल्यंनि खामु हा तामु रा स्तः
सो ऽभूत्प रासु भूमि तिं शा
स्तार्पि तैर्न वारिभि रे वृ द्धः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.