९.७४
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् ।
अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥
सञ्जीविनीटीका (मल्लिनाथः) नृपतेरिति॥ तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्‌करम् गजवधरूपं पङ्क्तिरथो दशरथो विलङघ्‌य लक्ष्मी कामो युद्धादन्यत्र करिवधं न कुर्यात् इति शास्त्रमुल्लङ्घअय कृतवान्। ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति। श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः सन्तः। न पन्था इत्यपथम्। पथो विभाषा (अष्टाध्यायी ५.४.७२ ) इति वा समासान्तः। अपथं नपुंसकम् (अष्टाध्यायी २.४.३० ) इति नपुंसकम्। अपन्थास्त्वपथं तुल्ये इत्यमरः (अमरकोशः २.१.१८ ) । तस्निन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि। प्रवर्तन्त इत्यर्थः। वैतालीयं वृत्तम् ॥
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१०११
नृ तेःप्रति षिद्ध मे
त्कृ वा न्पङ्क्ति थोविङ्घ्य यत्
थेर्पन्तिहि
श्रु न्तोऽपि जोनि मीलि ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.