९.६६
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शान्तिम् ॥
सञ्जीविनीटीका (मल्लिनाथः) चमरानिति॥ क्वचिञ्चमरान्परितः। अभितः परितः समया-(वा१४४२) इत्यादिना द्वितीया। प्रवर्तिताश्वः प्रधाविताश्वः। आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः। नृपतीनिव तांश्चमरान्सितबालव्यजनैः शुभ्रचामरैर्वियोज्य विरहय्य सद्यः शान्तिं जगाम। शूराणां परकीयमैश्वर्यमेकसह्यम्, न तु जीवितमिति भावः। औपच्छन्दसिकं वृत्तम् ॥
छन्दः औपच्छन्दसिक
छन्दोविश्लेषणम्
१०१११२
रान्परि तःप्रर्ति ता श्वः
क्वचि दार्णवि कृष्टल्ल र्षी
नृ तीनि तान्वि योज्य द्यः
सि बाव्य नैर्ज गा शा न्तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.