९.६७
अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥
सञ्जीविनीटीका (मल्लिनाथः) अपीति॥ स नृपस्तुरगसमीपादुत्पतन्तमपि। सुप्रहारमपीत्यर्थः। रुचिरकलापं भासुरबर्हम्। मह्यामतिशयेन रौतीति मयूरो बर्ही। पृषोदरादित्वात्साधुः। तं चित्रेण माल्येनानुकीर्णे रतौ विगलितबन्धे प्रियायाः केशपाशे सपदि गगतमनस्कः प्रवृत्तचित्तः। उरः प्रभृतिभ्यः कप् (अष्टाध्यायी १.४.१५१ ) इति कप्प्रत्ययः। न बाणलक्ष्यीचकार। न प्रजहारेत्यर्थः ॥
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
पितु मी पा दुत्प न्तं यू रं
रुचि ला पं बा क्ष्यी का
दि स्क श्चित्र मा ल्यानु की र्णे
तिविलि न्धे के पा शेप्रि या याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.