९.६३
व्याघ्रनभीरभिमुखोत्पतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषात्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥
सञ्जीविनीटीका (मल्लिनाथः) व्याघ्रानिति॥ अभीर्निर्भीकः स धन्वी गुहाभ्योऽभिमुखमुत्पतितान्। वायुना रुग्णान्भग्नान्। फुल्ला विकसिताः। अनुपलर्गात्फुल्लक्षीवकृशोल्लाघाः (अष्टाध्यायी ३.२.५५ ) इति निष्ठातकारस्य लत्वनिपातः। येऽसनस्य सर्जवक्षस्य। सर्जकासनबन्धूकपुष्पप्रियकजीवकाः इत्यमरः (अमरकोशः २.४.४४ ) । अग्रविटपास्तानिव स्थितान्। इषुधिभूतानित्यर्थः। व्याघ्राणां चित्ररूपत्वादुपमाने फुल्लविशेषणम्। शरैः पूरितानि वक्त्ररन्ध्राणि येषां तान्व्याघ्रान्। शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार। तूणं शरैः पूरितवानित्यर्थथः॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
व्याघ्र भीभिमु खोत्पति तान्गु हा भ्यः
फु ल्ला नाग्रवि पानि वायु रु ग्णान्
शि क्षावि शेघुस्त यानि मे षा
त्तू णी का पूरिक्त्र न्ध्रान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.