९.६०
तं वाहनादवनतोत्तरकायमीषद्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः ।
नात्मानमस्य विविदुः सहसा वराहा वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ वराहाः। वाहनादश्वादीषदवनतोत्तरकायं किंचिदानतपूर्वकायं विध्यन्तं प्रहरन्तं तं नृपम्। उद्धृतसटा ऊर्ध्वकेसराः सन्तः। सटा जटाकेसरयोः इति केशवः। प्रतिहन्तुमीषुः प्रतिहर्तुमैच्छन्। अस्य नृपस्येषुभिः सहसा जघनानामाश्रयेष्ववष्टम्भेषु वृक्षेषु विद्धमात्मानं न विविदुः। एतेन वराहाणां मनस्वित्वं नृपस्य हस्तलाघवं चोक्तम् ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
तं वा ना तोत्त का मी
द्वि ध्यन्त मुद्धृ टाःप्रतिन्तु मी षुः
ना त्मास्यविवि दुः सा रा हा
वृ क्षेषु विद्धमिषु भिर्ज नाश्र येषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.