९.५९
उत्तस्थुषः सपदि पल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।
जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥
सञ्जीविनीटीका (मल्लिनाथः) उत्तस्थुष इति॥ स नृपः मुस्ताप्ररोहाणां मुस्ताङ्कुराणां कवला ग्रासाः तेषामवयवैः श्रमविवृतमुखभ्रंशिभिः शकलैरनुकीर्णं व्याप्तम्। आयताभिर्दीर्घाभिरार्द्रपदपङ्क्तिभिः सुव्यक्तम्। सपदि पल्वलपङ्कमध्यादुत्तस्थुष उत्थितस्य द्रुतवराहकुसस्य पलायितवराहयूथस्य मार्गं जग्राहानुससार ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
त्तस्थु षःदिल्वङ्क ध्या
न्मु स्ताप्र रो ला वानु की र्णम्
ग्राद्रु राकुस्य मा र्गं
सु व्यक्त मार्द्रङ्क्तिभि रा ता भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.