९.६
समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥
सञ्जीविनीटीका (मल्लिनाथः) समतयेति॥ नराधिपो दशरथः समतया समवर्तित्वेन। मध्यस्थत्वेनेत्यर्थः। वसुवृष्टेर्धनवृष्टेर्विसर्जनैः। असतां दुष्टानां नियमनान्निग्रहाञ्च। सवरुणौ वरुणसहितौ यमपुम्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान्। यथासंख्यमनुययावनुचकार। रुचा तेजसाऽरुणाग्रसरमरुणसारथिं सूर्यमनुययौ ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
यासु वृष्टिविर्ज नै
र्नि ना तां राधि पः
नु यौ पुण्य नेश्व रौ
रु णारु णाग्र रंरु चा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.