९.५
दशदिगन्तजिता रघुणा यथआ श्रइयमपुष्यदजेन ततः परम् ।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥
सञ्जीविनीटीका (मल्लिनाथः) दशेति॥ मही। दशदिगन्ताञ्जितवानिति दशदिगन्तजित्। तेन रघुणा यथा श्रियं कान्तिमपुष्यत्। ततः परं रघोरनन्तरमजेन च यथा श्रियमपुषअयत्। तथैवाहीनपराक्रमं न हीनः पराक्रमो यस्य तमन्यूनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनर्न बभाविति न। बभावेवेत्यर्थः। द्वौ नञौ प्रकृतमर्थं गमयतः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२१३१४
दिन्तजि ताघु णा
श्र पुष्य जे तः रम्
धिम्य थैपुर्ब भौ
ही ही राक्र मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.