९.७
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥
सञ्जीविनीटीका (मल्लिनाथः) नेति॥ उदयाय यतमानमभ्युदयार्थं व्याप्रिमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष। आक्षोटनं मृगव्यं स्यादाखोटो मृगया स्त्रियाम् इत्यमरः (अमरकोशः ३.३.१८० ) । दुष्टमासमन्तादुदमस्येति दुरोदरं द्यूतं च नापाहरत्। दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् इत्यमरः (अमरकोशः ३.३.१८० ) । शशिनः प्रतिमा प्रतिबिम्बमाभरणं यस्य तन्मधु नापाहरत्। न वेति पदच्छेदः। वाशब्दः समुञ्चये। नमयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत्। जातावेकवचनम्। अत्र मनुः(७।५०)पानमक्षाः स्त्रियश्चेति मृगया च यथाक्रमम्। एतत्कष्टतमं विद्याञअचतुष्कं कामजे गणे॥ इति॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
मृ याभि तिर्नदु रो रं
शिप्रति मा णंधु
मु या वा यौ ना
प्रि मा मा पा रत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.