९.५५
तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः। पृथुकः शावकः शिशु इत्यमरः (अमरकोशः २.५.४० ) । व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत्। कुशा गर्भे येषां तानि मुखानि यस्य तत् कुशगर्भमुखम्। तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत्। मृगाणां यूथं कुलम्। सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् सारो यस्य तत्। मृगाणां यूथं कुलम्। सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् इत्यमरः (अमरकोशः २.५.४० ) । तस्य दशरथस्य पुरस्तादग्र आविर्बभूव। वसन्ततिलका वृत्तम् ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
स्यस्तप्रयि भिर्मुहु रे शा वै
र्व्यान्य मारि णी नंपु स्तात्
विर्ब भूकुर्भमु खंमृ गा णां
यू थंग्रर्वि कृष्ण सा रम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.