९.५४
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथानाधिर्मनोव्यथारहितो नरवरो नरश्रेष्ठः। रवेण धनुष्टङ्कारेण रोषिताः केसरिणः सिंहा येन स राजा। कनकमिव पिङ्गः पिशङ्गो यस्तडिदेवप गुणो मौर्वी तेन संयुतं त्रिदशायुधमिन्द्रचापं नभस्यो भाद्रपदमास इव। स्युर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः इत्यमरः। अधिज्यमधिगतमौर्वीकं धनुरुपापदे जग्राह ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
स्यत्रि शायु धं
पिङ्ग डिद्गु संयु तम्
नु धिज्य नाधिरु पा दे
रो रोषि के री
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.