९.५३
श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।
स्थिगतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥
सञ्जीविनीटीका (मल्लिनाथः) श्वगणीति॥ स दशरथः। शुनां गणः स एषामस्तीति श्वगणिनः श्वप्राहिणः। तैः। वागुरा मृगबन्धनरज्जुः। वागुरा मृगबन्धनी इत्यमरः (अमरकोशः २.१०.२६ ) । तया चरन्तीति वागुरिका जालिकाः। चरति (अष्टाध्यायी ४.४.८ ) इति ठक्प्रत्ययः। द्वौ वागुरिकजालिकौ इत्यमरः (अमरकोशः २.१०.२६ ) । तैशअच प्रथममास्थइतमधिष्ठितम्। व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च। यस्मात्तथोक्तम्। दस्युतस्करमोषकाः इत्यमरः (अमरकोशः २.१०.२६ ) कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः। आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्॥ इति कामन्दकः। स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत्। निपानवदाहावयुक्तम्। आहावस्तु निपानं स्याद्गुपकूपजलाशये इत्यमरः (अमरकोशः २.१०.२६ ) । मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
श्वणि वागुरि कैःप्र मास्थि तं
व्य तास्युवि वे सः
स्थितु रं भूमिनि पा
न्मृ यो योचि तं नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.