९.४
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥
सञ्जीविनीटीका (मल्लिनाथः) जनपद इति॥ शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति। तस्येश्वरः (पा५।१।४२)इत्यण्प्रत्ययः। जनपदे देशे गदो व्याघिः। उपतापरोगव्याधिगदामयाः इत्यमरः (अमरकोशः २.६.५१ ) । पदं नादधौ। नाचक्रामेत्यर्थः। सपत्नजः शत्रुजन्योऽभिभवः कुत एव? असंभावित एवेत्यर्थः। क्षितिः फलवत्यभूञ्च ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
दे दः मा धा
भि वःकुत्न जः
क्षिति भूत्फत्यन्द ने
तेऽम तेसि पार्थि वे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.