९.४७
त्यजत मानमालं बत विग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥
सञ्जीविनीटीका (मल्लिनाथः) त्यजतेति॥ बतइत्यामन्त्रणे। खेदानुकम्पासंतोषविस्मयामन्त्रणे बत इत्यमरः। बत अङ्गाना मानं कोपं त्यजत। तदुक्तम्-स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रियेइति। विग्रहैर्विरोधैरलम्। विग्रहो न कार्य इत्यर्थः। गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति नागच्छति। इत्येवंरूपे स्मरमते स्मराभिप्राये। नपुंसके भावे क्तः। परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे। कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
त्य मा मा लं विग्र है
र्नपु रेति तंतु रं यः
भृ ताभिरि तीनि वेदि ते
स्म ते तेस्म धू नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.