९.४८
अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथानन्तरं मधुं मथ्नातीति मधुमद्विष्णुः। संपदादित्वात्क्विप्। पधुर्वसन्तः। मध्नातीति भावः। पचाद्यच्। मनसो मथो मन्मथः कामः। तेषां संनिभः सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विलासवतीसखः स्त्रीसहचरः सन्। ऋतुः प्राप्तोऽस्यार्तवः। तमुत्सवं वसन्तोत्सवं यथा-सुखं समनुभूय मृगयारतिं मृगयाविहारं चकम आचकाङ्क्ष ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
थासु मार्त मुत्स वं
नु भूवि ला ती खः
तिश्च मेमृ या तिं
धुन्मधुन्म संनि भः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.