९.४२
अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः ।
कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥
सञ्जीविनीटीका (मल्लिनाथः) अमदयदिति॥ तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाखअया लता। सप्तला नवमल्लिका इत्यमरः। मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया। गन्धप्रधानयेत्यर्थः। किसलयमेवाधरस्तत्र संगतया। प्रसृतरागयेत्यर्तः। कुसुमैः संभृतया संपादितया। कुसुमरूपयेत्यर्थः। स्मितरुचा हासकान्त्या मनः। पश्यतामिति शेषः। अमदयत् ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
न्मधुन्ध ना या
कि या सं या नः
कुसु संभृ याल्लि का
स्मिरु चारु चारुवि लासि नी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.