९.४१
अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥
सञ्जीविनीटीका (मल्लिनाथः) अलिभिरिति॥ अञ्जनबिन्दुमनोहरैः कज्जलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चह्नितस्तिलकः श्रीमान्नाम वृक्षः। तिलकः क्षुरकः श्रीमान् इत्यमरः (अमरकोशः २.४.४० ) । वनस्थलीम्। तिलको विशेषकः। तमालपत्रतिलकचित्रकाणि विशेषकम्। द्वितीयं च तुरीयं च न स्त्रियम् इत्यमरः (अमरकोशः २.४.४० ) । प्रमदामिव। न शोभयति स्मेति न खलु। अपि त्वशोभयदेवेत्यर्थः। लट् स्मे (अष्टाध्यायी ३.२.११८ ) इति स्मशब्दयोगाद्भूतार्थे लट् ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
लिभिञ्ज बिन्दु नो रैः
कुसुङ्क्तिनि पातिभिङ्कि तः
लु शो तिस्मस्थ लीं
तिस्ति कःप्र दामि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.