९.३
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥
सञ्जीविनीटीका (मल्लिनाथः) उभयमिति॥ मनस ईषिणो मनीषिणो विद्वांसः। पृषोदरादित्वात्साधुः। बलनिषूदनमिन्द्रम्। दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थं पतिं दशरथं चेत्युभयमेव। समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी। तस्य भावः समयवर्षिता तया हेतुना कृतकर्मणां स्वकर्मकारिणाम्। नुदतीति नुत्। इगुपधज्ञाप्रीकिरः कः (अष्टाध्यायी ३.२.१३५ ) इति कप्रत्ययः। श्रमस्य नुदं श्रमनुदम्। क्विबन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यादिति वदन्ति ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
मेन्ति नीषि णः
र्षि याकृर्म णाम्
नि षूर्थ तिं तं
श्रनु दंनुण्ड रान्व यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.