९.३६
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥
सञ्जीविनीटीका (मल्लिनाथः) ललितेति॥ अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम्। सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम्। अथ केसरे। बकुलः इत्यमरः। स्मरस्य सखायं स्मरसखम्। स्मरोद्दीपकमित्यर्थः। मधुं मद्यम्। अर्धर्चाः पुंसि च (अष्टाध्यायी २.४.३१ ) इति पुंसिङ्गता। उक्तं च-मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः। अर्धर्चादिगणे पाठान्पुंसकयोर्मधुः॥ इति। पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः। परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
लि विभ्रन्धविक्ष णं
सुभिन्ध राजि के रम्
तिषु निर्विवि शुर्मधुङ्ग नाः
स्म खंण्डर्जि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.