९.२
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रुकरौजसः ॥
सञ्जीविनीटीका (मल्लिनाथः) अधिगतमिति॥ अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम्। अत्र प्रकृतिशब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते। यद्यस्माद्विधिवद्यथाशास्त्रमपालयत्। ततो हेतोः। रन्ध्रं करोतीति रन्ध्रहेतुरित्यर्थः। कृञो हेतुताच्छील्यानुलोम्येषु (अष्टाध्यायी ३.२.२० ) इति टप्रत्ययः। नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः। कुमारः क्रौञ्चदारणः इत्यमरः (अमरकोशः १.१.५० ) । तदोजसस्तत्तुल्यबलस्यास्य दशरथस्य गुणवत्तरमभवत्। तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
धि तंविधिद्य पा
त्प्रकृतिण्ड मात्मकु लोचि तम्
स्य तोगुत्त रं
रंन्ध्रु रौ सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.