९.२९
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥
सञ्जीविनीटीका (मल्लिनाथः) विरचिता इति॥ मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः। भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः। दानशौण्डानर्थिजनाः स्तुवन्तीति भावः ॥
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
विचि ताधु नोश्रि या
भि वात्रवि शे काः
धुलि हांधु दावि शा दाः
कु का का तां युः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.